आसीनं च शयानं च पिता ते पितरं मम स्तौति पृच्छति चाभीक्ष्णं नीचस्थः सुविनीतवत्
याचतस्त्वं च दुहिता स्तुवतः प्रतिगृह्णतः सुताहं स्तूयमानस्य ददतो न तु गृह्णतः
अनायुधा सायुधायाः किं त्वं कुप्यसि भिक्षुकि लप्स्यसे प्रतियोद्धारं न च त्वां गणयाम्यहम्
सा विस्मयं देवयानीं गतां सक्तां च वाससि शर्मिष्ठा प्राक्षिपत्कूपे ततः स्वपुरमाविशत्
हतेयमिति विज्ञाय शर्मिष्ठा पापनिश्चया अनवेक्ष्य ययौ तस्मात् क्रोधवेगपरायणा
अथ तं देशमभ्यागाद् ययातिर्नहुषात्मजः श्रान्तयुग्यः श्रान्तरूपो मृगलिप्सुः पिपासितः
नाहुषिः प्रेक्षमाणो हि स निपाने गतोदके ददर्श कन्यां तां तत्र दीप्तामग्निशिखाम् इव
तामपृच्छत्स दृष्ट्वैव कन्याममरवर्णिनीम् सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना
का त्वं चारुमुखी श्यामा सुमृष्टमणिकुण्डला दीर्घं ध्यायसि चात्यर्थं कस्माच्छ्वसिषि चातुरा
कथं च पतिता ह्य् अस्मिन् कूपे वीरुत्तृणावृते दुहिता चैव कस्य त्वं वद सर्वं सुमध्यमे
यो ऽसौ देवैर्हतान् दैत्यान् उत्थापयति विद्यया तस्य शुक्रस्य कन्याहं त्वं मां नूनं न बुध्यसे
एष मे दक्षिणो राजन् पाणिस् ताम्रनखाङ्गुलिः समुद्धर गृहीत्वा मां कुलीनस्त्वं हि मे मतः
जानामि त्वां च संशान्तं वीर्यवन्तं यशस्विनम् तस्मान्मां पतितां कूपाद् अस्माद् उद्धर्तुमर्हसि
तामथ ब्राह्मणीं स्त्रीं च विज्ञाय नहुषात्मजः गृहीत्वा दक्षिणे पाणाव् उज्जहार ततो ऽवटात्
उद्धृत्य चैनां तरसा तस्मात्कूपान्नराधिपः आमन्त्रयित्वा सुश्रोणीं ययातिः स्वपुरं ययौ
गते तु नाहुषे तस्मिन् देवयान्यपि निन्दिता उवाच शोकसंतप्ता घूर्णिकामागतां पुनः
त्वरितं घूर्णिके गच्छ सर्वमाचक्ष्व मे पितुः नेदानीं तु प्रवेक्ष्यामि नगरं वृषपर्वणः
सा तु वै त्वरितं गत्वा घूर्णिकासुरमन्दिरम् दृष्ट्वा काव्यमुवाचेदं कम्पमाना विचेतना
आचख्यौ च महाभागा देवयानी वने हता शर्मिष्ठया महाप्राज्ञ दुहित्रा वृषपर्वणः
श्रुत्वा दुहितरं काव्यस् तदा शर्मिष्ठया हताम् त्वरया निर्ययौ दुःखान् मार्गमाणः सुतां वने
दृष्ट्वा दुहितरं काव्यो देवयानीं तपोवने बाहुभ्यां सम्परिष्वज्य दुःखितो वाक्यमब्रवीत्
आत्मदोषैर् नियच्छन्ति सर्वे दुःखसुखे जनाः मन्ये दुश्चरितं ते ऽस्ति तस्येयं निष्कृतिः कृता
निष्कृतिर् वास्तु वा मास्तु शृणुष्वावहितो मम शर्मिष्ठया यदुक्तास्मि दुहित्रा वृषपर्वणः
सत्यं किलैतत्सा प्राह दैत्यानामस्मि गायना एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी
वचनं तीक्ष्णपरुषं क्रोधरक्तेक्षणा भृशम् स्तुवतो दुहितासि त्वं याचतः प्रतिगृह्णतः
सुताहं स्तूयमानस्य ददतो ऽप्रतिगृह्णतः इति मामाह शर्मिष्ठा दुहिता वृषपर्वणः क्रोधसंरक्तनयना दर्पपूर्णानना ततः
यद्यहं स्तुवतस्तात दुहिता प्रतिगृह्णतः प्रसादयिष्ये शर्मिष्ठाम् इत्युक्ता हि सखी मया
वृषपर्वैव तद्वेद शक्रो राजा च नाहुषः अचिन्त्यं ब्रह्म निर्द्वंद्वम् ऐश्वरं हि बलं मम
यः परेषां नरो नित्यम् अतिवादांस्तितिक्षति देवयानि विजानीहि तेन सर्वमिदं जितम्
यः समुत्पतितं क्रोधं निगृह्णाति हयं यथा स यन्तेत्युच्यते सद्भिर् न यो रश्मिषु लम्बते