तेनासौ निगृहीतश्च न चचाल पदात्पदम् ततो ऽब्रवीद्वृषस्तं वै मुञ्च मां बलिनां वर
न मयासादितस्तात बलवांस्त्वत्समः क्वचित् मम चान्यः समो वापि न हि मे बलसंख्यया मुञ्च तातेति च पुनः प्रीतस्ते ऽहं वरं वृणु
एवमुक्तो ऽब्रवीदेनं जीवन्मे त्वं क्व यास्यसि एष त्वां न विमोक्ष्यामि परस्वादं चतुष्पदम्
नास्माकं विद्यते तात पातकं स्तेयमेव च भक्ष्याभक्ष्यं तथा चैव पेयापेयं तथैव च
द्विपदां बहवो ह्य् एते धर्म एष गवां स्मृतः कार्याकार्ये न वागम्यागमनं च तथैव च
गवां धर्मं तु वै श्रुत्वा संभ्रान्तस्तु विसृज्य तम् शक्त्यान्नपानदानात्तु गोपतिं संप्रसादयत्
प्रसादिते गते तस्मिन् गोधर्मं भक्तितस्तु सः मनसैव समादध्यौ तन्निष्ठस्तत्परो हि सः
ततो यवीयसः पत्नीं गौतमस्याभ्यपद्यत कृतावलेपां तां मत्वा सो ऽनड्वानिव न क्षमः
गोधर्मं तु परं मत्वा स्नुषां तामभ्यपद्यत निर्भर्त्स्य चैनं रुद्ध्वा च बाहुभ्यां सम्प्रगृह्य च
भाव्यमर्थं तु तं ज्ञात्वा माहात्म्यात्तमुवाच सा विपर्ययं तु त्वं लब्ध्वा अनड्वानिव वर्तसे
गम्यागम्यं न जानीषे गोधर्मात्प्रार्थयन्सुताम् दुर्वृत्तं त्वां त्यजाम्यद्य गच्छ त्वं स्वेन कर्मणा
काष्ठे समुद्गे प्रक्षिप्य गङ्गाम्भसि समुत्सृजत् यस्मात्त्वमन्धो वृद्धश्च भर्तव्यो दुरधिष्ठितः
तमुह्यमानं वेगेन स्रोतसो ऽभ्याशमागतः जग्राह तं स धर्मात्मा बलिर् वैरोचनिस्तदा
अन्तःपुरे जुगोपैनं भक्ष्यभोज्यैश्च तर्पयन् प्रीतश्चैव वरेणैव च्छन्दयामास वै बलिम्
तस्माच्च स वरं वव्रे पुत्रार्थे दानवर्षभः संतानार्थं महाभागभार्यायां मम मानद पुत्रान्धर्मार्थतत्त्वज्ञान् उत्पादयितुमर्हसि
एवमुक्तो ऽथ देवर्षिस् तथास्त्वित्युक्तवान् प्रभुः स तस्य राजा स्वां भार्यां सुदेष्णां नाम प्राहिणोत् अन्धं वृद्धं च तं ज्ञात्वा न सा देवी जगाम ह
शूद्रां धात्रेयिकां तस्माव् अन्धाय प्राहिणोत्तदा तस्यां कक्षीवदादींश्च शूद्रयोनाव् ऋषिर् वशी
जनयामास धर्मात्मा शूद्रान् इत्येवमादिकम् उवाच तं बली राजा दृष्ट्वा कक्षीवदादिकान्
प्रवीणान् ऋषिधर्मस्य चेश्वरान् ब्रह्मवादिनः विद्वान् प्रत्यक्षधर्माणां बुद्धिमान् वृत्तिमाञ्छुचीन्
ममैव चेति होवाच तं दीर्घतमसं बलिः नत्युवाच मुनिस्तं वै ममैवमिति चाब्रवीत्
उत्पन्नाः शूद्रयोना तु भवच्छन्दे सुरोत्तम अन्धं वृद्धं च मां ज्ञात्वा सुदेष्णा महिषी तव प्राहिणोद् अवमानान्मे शूद्रां धात्रेयिकां नृप
ततः प्रसादयामास बलिस् तमृषिसत्तमम् बलिः सुदेष्णां तां भार्यां भर्त्सयामास दानवः
पुनश्चैनाम् अलंकृत्य ऋषये प्रत्यपादयत् तां स दीर्घतमा देवीं तथा कृतवतीं तदा
दध्ना लवणमिश्रेण त्व् अभ्यक्तं मधुकेन तु लिह माम् अजुगुप्सन्ती आपादतलमस्तकम् ततस्त्वं प्राप्स्यसे देवि पुत्रान्वै मनसेप्सितान्
तस्य सा तद्वचो देवी सर्वं कृतवती तदा तस्य सापानम् आसाद्य देवी परिहरत्तदा
तामुवाच ततः सो ऽथ यत्ते परिहृतं शुभे विनापानं कुमारं तु जनयिष्यसि पूर्वजम्
नार्हसि त्वं महाभाग पुत्रं मे दातुमीदृशम् तोषितश्च यथाशक्ति प्रसादं कुरु मे प्रभो
तवापचाराद्देव्येष नान्यथा भविता शुभे नैव दास्यति पुत्रस्ते पौत्रौ वै दास्यते फलम्
तस्यापानं विना चैव योग्यभावो भविष्यति तस्माद् दीर्घतमाङ्गेषु कुक्षौ स्पृष्ट्वेदम् अब्रवीत्
प्राशितं यद्यदङ्गेषु न सोपस्थं शुचिस्मिते तेन तिष्ठन्ति ते गर्भे पौर्णमास्याम् इवोडुराट्