सुप्रसन्नं स्मरेद्धक्त्या भक्तानामभयङ्करम्
तद्दशांशं प्रजुहुयान्त्तिलैर्मधुरसंयुतैः
षट्कोणान्तस्त्रिकोणस्थव्योमपङ्कजसंयुते
भक्षयस्व गणैः सार्द्धं सारमेयसमन्वितः
अनेन बलिना हृष्टो बटुकः परसैन्यकम्
अङ्कशो वह्निशिखरो लान्तदान्त इतीरितः
अस्य त्रितो मुनिः प्रोक्तश्छन्दो ऽनुष्टुबुदाहृतम्
हृदयं दीप्तफट् प्रोक्तं ज्वलफट् शिर ईरितम्
हलफट् नेत्रमाख्यातं सर्वज्वानिनिफट् परम्
चण्डेश्वरं रक्ततनुन्त्र्यक्षं रक्तांबरावृतम्
वर्णलक्षं जपेन्मन्त्रं होमं कुर्याद्दशांशतः
पञ्चाक्षरोदिते पीठे मूर्तिं मूलेन कल्पयेत्
हृदयं मनुराख्यातश्चण्डेशस्य प्रपूजने
शैवमन्त्रेषु निष्णातश्चण्डेश्वरमनुं जपेत्
शृणु नारद वक्ष्यामि दिव्यं माहेश्वरं स्तवम्
यस्य पाठेन पूजायां सिद्ध्यन्ति मनवो ऽखिलाः
सर्वभूतान्तरस्थाय शङ्कराय नमोनमः
अतीन्द्रियाय महसे शाश्वताय नमोनमः
भवाय भवसंभूतदुःखहन्त्रे नमोनमः
चतुर्वर्गवदान्याय सर्वज्ञाय नमोनमः
योगिध्येयाय महते निर्गुणाय नमोनमः
कन्दर्प्पदर्प्पनाशाय कालहॄन्त्रे नमोनमः
सरिद्दामसमाबद्धकपदार्य नमोनमः
पुरान्तकाय पूर्णाय पुण्यनाम्नो नमोनमः
विवाससे निवासाय विश्वेषां पतये नमः
त्रिधाम्ने धामरूपाय जन्मदाय नमोनमः
कान्ताय निजकान्तायै दत्तार्द्धाय नमोनमः
शिवसान्निध्यदं विप्र सर्पतन्त्रप्रकाशकम्
लोकाभिलाषसंपूर्तिक्रियासाधनसंगतम्
ते तु लोकोपकाराय ज्ञातव्याः सिद्धिदायकाः