दुर्लभः शिष्टसंसर्गो दुर्लभा भक्तिरुच्यते
कृतं श्राद्धं त्रयोदश्यां दुर्लभं वरवर्णिनि
धेनुस्तिलमयी सुभ्रु दुर्लभा विप्रगामिनी
दुर्लभं पर्वकाले तु स्नानं शीतलवारिणा
यथाशास्त्रोदितं कर्म तद्देवि भुवि दुर्लभम्
व्याधेर्विघातकरणं दुर्लभं शास्त्रमार्गतः
एवं वचो वरारोहे कुरु मे धर्मरक्षकम्
सेविता विषयाः सम्यक्कृतं राज्यमकण्टकम्
अदृष्टविषयं पुत्रं नाहं हिंस्ये कदाचन
धर्माङ्गदो न मे शत्रुर्नाहं हन्मि सुतं तव
वसुधां स्वेच्छया राजंस्त्वं शाधि बहुवत्सरम्
मम भूमिपते कार्यं न पुत्रनिधने तव
किं विलापैर्महीपाल एतैर्द्धर्मबहिष्कृतैः
एवं ब्रुवाणां तां राजन्मोहिनीं तनुमध्यमाम्
एतदेव गृहाण त्वं मा शङ्कां कुरु भामिनि
आत्मानं च प्रत्युवाच सत्यधर्मव्यवस्थितः
मन्मातुर्वचनं सत्यं कुरु भूप प्रतिश्रुतम्
अपत्यं धर्मकामार्थं श्रेयस्कामस्य भूपतेः
तवापि निर्मना लोकाः स्ववाक्यपरिपालनात्
देहत्यागे ममारंभो नरदेहे भविष्यति
पितुरर्थे हता ये तु मातुरर्थे हतास्तथा
भूम्यर्थे पार्थिवार्थे वा देवतार्थे तथैव च
तदलं परितापेन जहि मां त्वं वरासिना
धर्मार्थे तनयं हन्याद्भार्यां वापि महीपते
अश्वमेघे मखवरे न दोषो जायते नृप
तत्त्वया ह्यविचारेण कर्त्तव्यं वचनं ध्रुवम्
विमोचयेथा नृपते सुघोराद्वाक्यानृतान्मोहिनिहस्तयोगात्
यशः प्काशाद्भविता हि कीर्तिस्तथाक्षया तात न संशयो ऽत्र
संध्यावलीमुखं प्रेक्ष्य प्रहृष्टकमलोपमम्
मा भुङ्क्ष्व तनयं हिंस चेत्याग्रहसमन्वितम्