व्यात्क्रमेण प्रजाः सर्वा म्नियन्ते पापतत्पराः
कामक्रोधपरा मूढा वृथासंतापपीडिताः
उत्तमा नीचतां यान्ति नीचाश्चोत्तमतां तथा
पीडयन्ति प्रजाश्चैव करैरत्यर्थयोजितैः
धर्मस्त्रीष्वपि गच्छन्ति पतयो जारधर्मिणः
परिस्त्रीनिरतः सर्वे परद्रव्यपरायणाः
घोरे कलियुगे विप्र सर्वे पापरता जनाः
सरित्तीरेषु कुद्दालैर्वापयिष्यन्ति चौषधीः
वेश्यालावंयशीलेषु स्पृहा कुर्वन्ति योषितः
वेदविक्रयकाश्चान्ये शूद्राचाररता द्विजाः
न व्रतानि चरिष्यन्ति ब्राह्मणा द्रव्यलोलुपाः
द्विजाः कुर्वन्ति दंभार्थं पितृश्राद्धादिकाः क्रियाः
दुग्धलोभनिमित्तेन गोषु प्रीतिं च कुर्वते
अपात्रेष्वेव दानानि प्रयच्छन्ति नराधमाः
न कस्यापि मनो विप्र विष्णुभक्तिपरं भवेत्
ताडयन्ति द्विजान्दुष्टाः कृष्णे कृष्णत्वमागते
प्रतिग्रहं प्रकुर्वन्ति पतितानामपि द्विजाः
युगान्ते च हरेर्नाम नैवकश्चिद्वदिष्यति
शूद्रान्नभोगनिरता भविष्यन्ति कलौ द्विजाः
पाषण्डाश्चभविशष्यन्तिचतुराश्रमनिन्दकाः
द्विजातिधर्मान्गृह्णन्ति पाखण्डलिङ्गिनो ऽधमाः
शूद्राधर्मान्प्रवक्ष्यन्ती कूटयुक्तपरायणाः
भविष्यन्तिदुरात्मानः शूद्राः प्रव्रजितास्तथा
धर्मटीनास्तु पाषण्डा कापाला भिक्षवो ऽधमाः
शूद्रा धर्मान्प्रवक्ष्यन्तिह्यधिरुह्योत्तमासनम्
पाषण्डाः प्रचारिष्यन्ति प्रायो वेदविदूषकाः
भविष्यन्तिकलौ प्रायो धर्मविध्वंसका नराः
हर्तारं परवित्तानां भवितारो नराधमाः
आत्मस्तुतिपराः सर्वे परनिन्दापरास्तथा
भविष्यन्ति नरा विप्र कलौ चाधर्मबान्धवाः