संध्याबद्धांजलिपुटा मुनयोभिमुखा रविम्। यावदद्यासते शीघ्रं निवार्योष्णाभिभाविताम्
व्यजृंभताथ लोकेस्मिन्क्रमाद्वैभावरं तमः। कुटिलस्येव हृदये कालुष्यं दूषयन्मनः
ज्वलत्फणिफणारत्नदीपोद्योतित भित्तिके। शयने शशसंघात रत्नवस्त्रोत्तरच्छदे
नानारत्नद्युतिलसच्छक्रचापविडंबके। रत्नैः किंकिणिजालेन लसन्मुक्ताकलापके
कमनीयचलल्लीला वितानाच्छादितांबरे। मंदरे मंन्दसंचारं गते गिरिसुतायुतः
तस्थौ गिरिसुता बाहुलता मिलितकंधरः। शशिमौलिः सितज्योत्स्नास्फारपूरितगोचरः
गिरिजाप्यसितापांगी नीलोत्पलदलच्छविः। विभावर्या च संपृक्ता बभूवातीव गोमयी
तामुवाच ततो देवः क्रीडाकेलिकलायुताम्
शर्व उवाच। शरीरे मम तन्वंगि सिते भास्यसितद्युतिः। भुजंगी वा सिता शुभ्रे संश्लिष्टा चंदनेतरौ
चंद्रातपेन संपृक्ता रुधिराम्बरसंवृता। रजनी वा सिते पक्षे दृष्टिदोषं ददासि मे
इत्युक्ता गिरिजा तेन मुक्तकंठा पिनाकिनम्। उवाच कोपरक्ताक्षी भ्रुकुटी विकृतानना
देव्युवाच-। स्वकृतेन जनः सर्वो जाड्येन परिभूयते। अवश्यमर्थी प्राप्नोति खंडनं शशिमंडन
तपोभिर्दीर्घचरितैर्या त्वां प्रार्थितवत्यहं। तस्या मेनि यतस्त्वेष ह्यवमानः पदे पदे
नैवास्मि कुटिला शर्व विषमा न च धूर्जटे। सविषस्त्वं जगत्ख्यातो व्यक्तदोषाकराश्रयः
त्वं हि मुष्णासि दशनान्नेत्रहंता भगस्य च। आदित्यस्त्वां विजानाति भगवान्द्वादशात्मकः
मूर्ध्नि शूलं जनयसि स्वैर्दोषैर्मामधिक्षिपन्। यस्त्वं मामात्थकृष्णेति महाकालोसि विश्रुतः
यास्याम्यहं परित्यक्तुमात्मानं तपसा गिरिम्। जीवंत्या न मया कृत्यं धूर्तेन परिभूतया
कापालिकेन क्षुद्रेण श्मशाने नित्यवासिना। भूत्या विलिप्त स्वांगेन मातृमध्यस्थ चारिणा
निशम्य तस्या वचनं कोपतीक्ष्णाक्षरं हरः। उवाचानिष्टसंभ्रांतः प्रचलेनेंदुमौलिना
शर्व उवाच। अगात्मजासि गिरिजे नाहं निंदापरस्तव। चाटूक्तिबुध्या तु मया कृत उन्मादसंश्रयः
विकल्पः स्वस्थचित्ते तु गिरिजे न मम क्रमात्। यद्येवं कुपिता भीरु तत्तवाहं न वै पुनः
नर्मवादी भविष्यामि जहि कोपं शुचिस्मिते। शिरसा प्रणतेनैष रचितस्ते मयांजलि
नि हीनो ह्यपमानेन निंदिते नैति विक्रियाम्। असतां तु सतां न स्यान्मर्मस्पृष्टो नरः किल
अनेकैश्चाटुभिर्देवी देवेन प्रतिबोधिता। कोपं तीव्रं न तत्याज सती मर्मणि घट्टिता
अवष्टब्धमथाच्छिद्य वासः शंकरपाणिना। विपर्यस्तालकावेगाद्गन्तुमैच्छच्च शैलजा
तस्या व्रजंत्याः कोपेन पुनराह पुरांतकः। सत्यं सर्वैरवयवैस्तनोषि सदृशां पितुः
हिमाचलस्य शृंगस्थमेव जालाकुलं मनः। तथा दुरवगाह्येभ्यो गहनो हि तवाशयः
काठिन्यमश्मसारेभ्यो वनेभ्यो बहुलां गता। कुटिलत्वं निम्नगाभ्यो दुःसेव्यत्वं हिमादपि
संक्रांतं सर्वमेवैतत्तन्वंगि हिमभूधरात्। इत्युक्ता सा पुनः प्राह गिरिशं शैलकन्यका
कोपकंपितमूर्द्धा सा प्रस्फुरद्दशनच्छदा। उमोवाच-। स्यात्सर्वं दोषदानेन निंदायां गुणिनो बलात्