अन्यायेन तु योद्धारस्तिष्ठंति नरके चिरम्। एवं च क्षत्रिया वृत्तिर्ब्राह्मणैरुपजीव्यते
वैश्यैः शूद्रैस्तथान्यैश्च अंत्यजैर्म्लेच्छजातिभिः। ये च योधाः प्रयुध्यंते न्याययुद्धेन सर्वदा
तेपि यांति परं स्थानं सर्वे वर्णा द्विजातयः। न शूरो यो द्विजो भीरुरस्त्रशस्त्रविवर्जितः
विपत्तौ वैश्यवृतिं च कारयेद्द्विजसत्तमः। वैश्यवृत्तिं वणिग्भावं कृषिं चैव तथापरैः
कारयेत्कृषिवाणिज्यं विप्रकर्म न च त्यजेत्। वणिग्भावान्मृषात्युक्तौ दुर्गतिं प्राप्नुयाद्द्विजः। आर्द्रद्रव्यं परित्यज्य ब्राह्मणो लभते शिवम्। समुत्पाद्य ततो वृत्तिं दद्याद्विप्राय सर्वशः
पितृयज्ञे तथा चाग्नौ जुहुयाद्विधिवद्द्विजः। तुलेऽसत्यं न कर्त्तव्यं तुलाधर्मप्रतिष्ठिता
छलभावं तुले कृत्वा नरकं प्रतिपद्यते। अतुलं चापि यद्द्रव्यं तत्र मिथ्या परित्यजेत्
एवं मिथ्या न कर्त्तव्या मृषा पापप्रसूतिका। नास्ति सत्यात्परोधर्मो नानृतात्पातकं परम्
अतः सर्वेषु कार्येषु सत्यमेव विशिष्यते। अश्वमेधसहस्रं तु सत्यं च तुलया धृतम्
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते। यो वदेत्सर्वकार्येषु सत्यं मिथ्या परित्यजेत्
स निस्तरति दुर्गाणि स्वर्गमक्षयमश्नुते। वाणिज्यं कारयेद्विप्रो मिथ्याऽवश्यं परित्यजेत्१०० 1.48.
वृद्धिं च निक्षिपेत्तीर्थे स्वयं शेषं तु भोजयेत्। देहक्लेशात्तत्सहस्रगुणं भवति सर्वदा
अर्थार्जनविधौ मर्त्या विशंति विषमे जले। कांतारमटवीं चैव श्वापदैः सेवितां तथा
गिरिं गिरिगुहां दुर्गां म्लेच्छानां शस्त्रपातिनाम्। गृहं प्रतिभयं स्थानं धनलोभात्समंततः
सुतदारान्परित्यज्य दूरं गच्छंति लोभिनः। स्कंधे भारं वहंत्यन्ये तर्यां चक्रे निपातनैः
क्षेपणीभिर्महादुःखैस्सदा प्राणव्ययेन च। अर्थस्य संचयः पुत्र प्राणात्प्रियतरो महान्
एभिर्न्यायार्जितं वित्तं वणिग्भावेन यत्नतः। पितृदेवद्विजातिभ्यो दत्तं चाक्षयमश्नुते
एतौ दोषौ महांतौ च वाणिज्ये लाभकर्मणि। लोभानामपरित्यागो मृषा ग्राह्यश्च विक्रयः
एतौ दोषो परित्यज्य कुर्यादर्थार्जनं बुधः। अक्षयं लभते दानाद्वणिग्दोषैर्न लिप्यते
पुण्यकर्मरतो विप्रः कृषिं हि परिकारयेत्। वाहयेद्दिवसस्यार्धं बलीवर्दचतुष्टयम्
अभावात्त्रितयं चैव अविश्रामं न कारयेत्। चारयेच्च तृणेऽच्छिन्नै चोरव्याघ्रविवर्जिते
दद्याद्घासं यथेष्टं च नित्यमातर्पयेत्स्वयम्। गोष्ठं च कारयेत्तस्य किंचिद्विघ्नविवर्जितम्
सदा गोमयमूत्राभ्यां विघसैश्च विवर्जितम्। न मलं निक्षिपेद्गोष्ठे सर्वदेवनिकेतने
आत्मनः शयनीयस्य सदृशं कारयेद्बुधः। समं निर्वापयेद्यत्नाच्छीतवातरजस्तथा
प्राणस्य सदृशं पश्येद्गां च सामान्यविग्रहम्। अस्य देहे सुखंदुःखं तथा तस्यैव कल्पते
अनेन विधिना यस्तु कृषिकर्माणि कारयेत्। स च गोवाहनैर्दोषैर्न लिप्येत धनी भवेत्
दुर्बलं पीडयेद्यस्तु तथैव गदसंयुतम्। अतिबालातिवृद्धं च स गोहत्यां समालभेत्
विषमं वाहयेद्यस्तु दुर्बलं सबलं तथा। स गोहत्यासमं पापं प्राप्नोतीह न संशयः
यो वाहयेद्विना सस्यं खादंतं गां निवारयेत्। मोहात्तृणं जलं वापि स गोहत्यासमं लभेत्
संक्रांत्यां पौर्णमास्यां चामावास्यायां तथैव च। हलस्य वाहनात्पापं गवामयुतहत्यया