कृष्णोद्भवं पापहरं परं यः शृणोति यः श्रावयते च भक्त्या । स्यात्तस्य पुण्या सकलाक्रियापि तद्दर्शनस्नानसमुद्भवं फलम्
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये सत्य भामासंवादेकृष्णावेण्यामाहात्म्यवर्णनोनाम एकादशाधिकशततमोऽध्यायः
ईश्वर उवाच। माघस्नानस्य माहात्म्यं शृणु भागवतोत्तम । त्वत्समो नास्ति लोकेऽस्मिन्विष्णुभक्तो महामते
चक्रतीर्थे हरिं दृष्ट्वा मथुरायां च केशवम् । यत्फलं लभते मर्त्यो माघस्नानेन तत्फलम्
जितेंद्रियः शांतमनाः सदाचारेण संयुतः । स्नानं करोति यो माघे संसारी न भवेत्पुनः
श्रीकृष्ण उवाच। शूकरस्य च माहात्म्यं कथयिष्ये तवाग्रतः । यस्य विज्ञानमात्रेण सान्निध्यं मम सर्वदा
सूत उवाच। इत्युक्त्वा भगवान्कृष्णः सत्यायै बहुधा जगौ । तदहं संप्रवक्ष्यामि तच्छृणुध्वं तपोधनाः
श्रीकृष्ण उवाच। पंचयोजनविस्तीर्णे शूकरे हरिमंदिरे । यस्मिन्वसति यो जीवो गर्दभोऽपि चतुर्भुजः
त्रीणि हस्तसहस्राणि त्रीणि हस्तशतानि च । त्रयो हस्ता शूकरस्य परिमाणं विधीयते
षष्टिवर्षसहस्राणि योऽन्यत्र कुरुते तपः । तत्फलं लभते देवि प्रहरार्द्धेन शूकरे
सन्निहत्यां कुरुक्षेत्रे राहुग्रस्ते दिवाकरे । तुलापुरुषदानेन तत्फलं परिकीर्त्तितम्
काश्यां दशगुणं प्रोक्तं वेण्यां शतगुणं भवेत् । सहस्रगुणितं प्रोक्तं गंगासागरसंगमे
अनंतं चैव विज्ञेयं शूकरे हरिमंदिरे । अन्यत्र ददते लक्षं संविधानेन कार्तिक
इहैवैकेन दत्तेन शूकरे तत्समं भवेत् । शूकरे च तथा वेण्यां गंगासागरसंगमे
सकृदेव नरः स्नात्वा ब्रह्महत्यां व्यपोहति । अलर्केण पुरा प्राप्ता सप्तद्वीपा वसुंधरा । शूकरक्षेत्रमाहात्म्यं श्रुत्वा चैव षडानन
मार्गशीर्षस्य द्वादश्यां शुक्लायां व्रज पुत्रक । कार्त्तिकेय उवाच । भगवन्श्रोतुमिच्छामि व्रतानामुत्तमं व्रतम् । विधिं मासोपवासस्य फलं चास्य यथोचितम्
यथाविधि नरैः कार्या व्रतचर्या यथा भवेत् । आरभ्यते यथापूर्वं समाप्यं हि यथाविधि
यावत्संख्यं तु कर्त्तव्यं तत्प्रब्रूहि महेश्वर । व्रतमेतत्सुखश्रीदं विस्तरेण ममानघ
श्रीरुद्र उवाच। पावके साधु सर्वं ते यत्पृष्टं प्रब्रुवेऽनघ । भक्त्या मतिमतां श्रेष्ठ शृणुष्व गदतो मम
सुराणां च यथा विष्णुस्तपतां च यथा रविः । मेरुःशिखरिणां यद्वद्वैनतेयश्च पक्षिणाम्
तीर्थानां तु यथा गंगा प्रजानां तु यथा वणिक् । श्रेष्ठं सर्वव्रतानां तु तद्वन्मासोपवासनम्
सर्वव्रतेषु यत्पुण्यं सर्वतीर्थेषु चैव हि । सर्वदानोद्भवं चैव लभेन्मासोपवासकृत्
अग्निष्टोमादिभिर्यज्ञैर्विविधैर्भूरिदक्षिणैः । न तत्पुण्यमवाप्नोति यन्मासपरिलंघनात्
तेन जप्तं हुतं दत्तं तपस्तप्तं कृतं स्वधा । यः करोति विधानेन नरो मासमुपोषणम्
उद्दिश्य वैष्णवं यज्ञं मामभ्यर्च्य जनार्दनम् । गुरोराज्ञां ततो लब्ध्वा कुर्यान्मासोपवासनम्
वैष्णवानि यथोक्तानि कृत्वा सर्वव्रतानि तु । द्वादश्यादीनि पुण्यानि ततो मासमुपावसेत्
अतिकृच्छ्रं च पाराकं कृत्वा चांद्रायणं ततः । मासोपवासं कुर्वीत गुरोर्विप्राज्ञया ततः
आश्विनस्यामले पक्षे एकादश्यामुपोषितः । व्रतमेनं तु गृह्णीयाद्यावत्त्रिंशद्दिनानि तु
वासुदेवं समभ्यर्च्य कार्तिकं सकलं नरः । मासं चोपवसेद्यस्तु स मुक्तिफलभाग्भवेत्
अच्युतस्यालये भक्त्या त्रिकालं कुमुदैः शुभैः । मालतींदीवर्रैबुध्नैः कमलैश्च सुगंधिभिः