या पश्चाद्वाहिनी गंगा कालिंद्या सह संगता । हंति कोटिकृतं पापं सा माघे नृप दुर्लभा 6.127.
यत्कथ्यतेऽमृतं राजन्सा वेणी भुवि कीर्तिता । तस्यां माघे मुहूर्तं तु देवानामपि दुर्लभम्
ब्रह्माविष्णुर्महादेवो रुद्रादित्यमरुद्गणाः । गंधर्वा लोकपालाश्च यक्षकिन्नरपन्नगाः
अणिमादिगुणैः सिद्धा ये चान्ये तत्त्ववादिनः । ब्रह्माणी पार्वती लक्ष्मीः शची मेनादितिर्दितिः
सर्वास्ता देवपत्न्यश्च तथा नागांगना नृप । घृताची मेनका रंभा उर्वशी च तिलोत्तमा
गणा ह्यप्सरसां सर्वे पितॄणां च गणास्तथा । स्नातुमायांति ते सर्वे माघे वेण्यां नराधिप
कृते युगे स्वरूपेण कलौ प्रच्छन्नरूपिणः । प्रयागे माघमासे तु त्र्यहस्नानस्य यत्फलम्
नाश्वमेधसहस्रेण तत्फलं लभते भुवि । त्र्यहस्नानफलं माघे पुरा कांचनमालिनी
राक्षसाय ददौ भूप तेन मुक्तः स पापकृत् । कार्तवीर्य उवाच । भगवन्राक्षसः कोऽसौ सा का कांचनमालिनी
कथं दत्तवती धर्मं कथं वा तस्य सद्गतिः । एतत्कथय योगींद्र अत्रिसंतानभास्कर । यदि त्वं मन्यसे श्राव्यं परं कौतूहलं हि मे
दत्तात्रेय उवाच। शृणु राजन्विचित्रं त्वमितिहासं पुरातनम् । यस्य स्मरणमात्रेण वाजपेयफलं लभेत्
अप्सरारूपसंपन्ना नाम्ना कांचनमालिनी । प्रयागे माघमासे सा स्नात्वा याति हरालयम्
निकुंजे गिरिराजस्य तिष्ठता गिरिरूपिणा । दृष्टा गगनमारूढा तेन वृद्धेन रक्षसा
तेजस्विनी सुहेमाभा सुश्रोणी दीर्घलोचना । चंद्रानना सुकेशी च पीनोन्नतपयोधरा
तां दृष्ट्वा रूपसंपन्नामुवाच राक्षसस्तदा । का त्वं कमलपत्राक्षि कुत आगम्यते त्वया
आर्द्रं च वसनं कस्मात्सार्द्रा ते कबरी कुतः । कुत्र आगम्यते भीरु कुतस्ते खेचरी गतिः
केन पुण्येन वा भद्रे तव तेजोमयं वपुः । अतीवरूपसंपन्नं संभूतं च मनोहरम्
त्वद्वस्त्रबिंदुपातेन मम मूर्ध्नि सुलोचने । क्षणेन ह्यगमच्छांतिं क्रूरं मे मानसं सदा
नीरस्य महिमा कोऽयमेतद्व्याख्यातुमर्हसि । त्वं मे शीलवती भासि नाकृतिर्निर्गुणा भवेत्
अप्सरा उवाच। श्रूयतामप्सराश्चाहं भो रक्षः कामरूपिणी । प्रयागतश्चागताऽहं नाम्ना कांचनमालिनी
आर्द्रः परिकरो मेऽतः सुस्नाताऽहं सितासिते । गंतव्यं तु मया रक्षः कैलासे तु नगोत्तमे
तत्रास्ते पार्वतीनाथः सुरासुरसुपूजितः । वेणीवारिप्रभावेण रक्षस्ते क्रूरता गता
जाताहं येन पुण्येन गंधर्वस्य सुमेधसः । कन्यका दिव्यरूपा तु तत्सर्वं कथयामि ते
कलिंगाधिपते राज्ञस्त्वहमासीच्च वेश्यका । रूपलावण्यसंपन्ना सौभाग्यमदगर्विता
अन्यासां युवतीनां च तत्पुरेऽहं शिरोमणिः । तज्जन्मनि मया रक्षो भुक्त्वा भोगान्यथेच्छया
मोहितं तत्पुरं सर्वं मया यौवनसंपदा । रत्नानि च विचित्राणि भूषणानि धनानि च
वासांसि चित्ररूपाणि कर्पूरागुरुचंदनम् । एतच्चोपार्जितं सर्वं मया मोहनरूपया
नाहं जानामि हेम्नोंतं स्वनिवासे निशाचर । संसेवंते युवानो मे चरणौ कामपीडिताः
मया ते वंचिताः सर्वे सर्वस्वेन तु मायया । अन्योन्यस्पर्धाभावेन मृताः केचित्तु कामिनः
इत्थं तन्नगरे रम्ये सकले मे गतिस्तदा । प्राप्ते तु वार्द्धके काले शुशोच हृदयं मम । न दत्तं न हुतं जप्तं न व्रतं चरितं मया