पार्वत्युवाच। कस्मिन्कार्यसमारंभे समायातः पुरंदरः । स्वर्गलोकादिमं लोकमेतदाख्यातुमर्हसि
वार्त्रघ्नी च नदी केन निरुक्तेन निगद्यते । पुरंदरपुरं देव ब्रह्मघोषनिनादितम् । संभावयति योऽजस्रं मम तत्संगमं वद
महादेव उवाच। अस्मिंश्चैव तु भूर्लोके प्रश्नोऽयं समभूत्पुरा । युधिष्ठिरेति विख्यातो राजा वै धार्मिको महान्
पृष्टवान्स तु भीष्माय धर्मिणे ज्ञानरूपिणे । तेनोक्तं यत्तु तद्देवि प्रवक्ष्यामि तवाग्रतः
दशवर्षसहस्राणि दशवर्षशतानि च । वृत्रवासवयोर्युद्धमभवल्लोमहर्षणम्
ततः पराजितः शक्रः कृत्वा वृत्रेण संविधम् । अद्रोहे स रणं त्यक्त्वा जगाम शरणं मम
वार्त्रघ्न्या संगमे पुण्ये तोषयामास शंकरम् । अथांतरिक्षेऽहं देवि दर्शनं दत्तवांस्तदा
ममगात्रात्तु यद्भस्म पतितं काश्यपी तटे । भस्मगात्रेति तत्पुण्यं लिंगं देवि विनिर्मितम्
भूतेश्वरं भस्मगात्रं ब्रह्मणा संप्रतिष्ठितम् । तस्य वै दर्शनादेव ब्रह्महत्या लयं व्रजेत्
मुच्यते सर्वपापेभ्यः श्राद्धं कृत्वा युगादिषु । तदहं सुप्रसन्नोऽभूदिन्द्राय सुमहात्मने
यद्यत्त्वं वांछसे देव तत्सर्वं हि ददामि ते । अनेन वज्रयोगेन शीघ्रं वृत्रं हनिष्यसि
शक्र उवाच। भगवंस्त्वत्प्रसादेन दितिजं च दुरासदम् । वज्रेण निहनिष्यामि पश्यतस्ते सुरोत्तम
एवमुक्त्वा तदा इंद्रो गतवांश्चासुरं प्रति । तदा दुंदुभयो नेदुर्देवसैन्ये विशेषतः
मृदंग डिंडिमाश्चैव भेरी तूर्याण्यनेकशः । असुराणां च सर्वेषां वृत्तिलोभो महानभूत
बलवान्मघवा चैव क्षणेन समजायत् । तमाविष्टं ततो ज्ञात्वा ऋषयः पन्नगास्तथा
स्तुवंति शक्रमीशानं स्तुत्या जयजयेति च । गच्छतस्तस्य शक्रस्य युद्धकामस्य सन्निधौ । ऋषिभिः स्तूयमानस्य रूपमासीत्सुदुर्भरम्
महादेव उवाच। वृत्रस्यसहसा देवि तदा संग्राममूर्द्धनि । अभवन्यानि लिंगानि शरीरे तानि मे शृणु
ज्वलतास्योभवद्धोरो वैवर्ण्यमभवत्परम् । गात्रकंपश्च सुमहान्श्वासः सोष्मा व्यजायत्
रोमहर्षश्च तीव्रोऽभूच्छ्वासश्चैव महानभूत् । निष्पपात महाघोरा उल्काः पार्श्वं प्रपेदिरे
गृध्रा वटाः श्येन कंका वचो मुंचन्सुदारुणाः । वृत्रस्योपरि ते सर्वे चक्रवत्परिबभ्रमुः
ततः स गजमास्थाय इंद्रस्तत्र समागतः । वज्रोद्यतकरस्तत्र शक्रस्तं दैत्यमासदत्
अमानुषमथो नादं स मुमोच सुरेश्वरः । वृत्रासुरस्य यततः शक्रो वज्रमपातयत्
स वज्रः सुमहातेजाः कालाग्निसदृशो महान् । समुद्रस्य तटे वृत्रं शक्रो दैत्यमपातयत्
ततो नादः समभवत्पुनरेव समंततः । वृत्रं विनिहतं दृष्ट्वा सर्वदेवभयंकरम्
पुष्पवृष्टिस्तु महती इंद्र मूर्ध्नि पपात ह । वृत्रं हत्वा स भगवान्दानवेशं भयंकरम्
स्तूयमानोऽमरैः सार्द्धं देवदानीं तमाविशत् । अथ वृत्रशरीरात्तु निर्गतं तेज उत्तमम्
ब्रह्महत्यामहाघोरा रौद्र लोकभयंकरी । करालवदना सा च विकृता कृष्णपिंगला
कपालमालिनी चैव सुकृशा नगनंदिनि । रुधिराक्ता च पापिष्ठा मीनगंधातिभीषणा
सानिष्क्रम्य महादेवि तादृग्रूपा भयावहा । इंद्रमन्वेषयामास तदा वै सुरसत्तमे
निर्धावती ततः सा तु दृष्ट्वा शक्रं महौजसम् । कंठे जग्राह देवेंद्रं सुलग्ना साभवत्तदा