स च तस्मिन्समुद्भ्रांतो ब्रह्महत्याकृते भये । निलिल्य बिसमध्येऽसौ स्थितो वर्षगणान्बहून्
तया गृहीतो भो देवि निश्चेष्टः समपद्यत । तस्या व्यपोहने शक्रः प्रयत्नं च चकार ह
न शक्तोऽभून्महादेवि ब्रह्महत्यां व्यपोहितुम् । तया गृहीतमात्रस्तु देवेंद्रो निष्ठरूपधृक्
पितामहमुपागम्य शिरसा प्रत्यपूजयत् । ज्ञात्वा गृहीतं शक्रं तु द्विजप्रवरहत्यया
ब्रह्मा संचिंतयामास तदा वै सुरसत्तमे । सा चिंत्यमाना ब्रह्माणमुपगम्याब्रवीद्वचः
प्राप्तास्मि भगवन्देव त्वत्सकाशं हि मानद । यत्कर्त्तव्यं मया देव तद्भवान्वक्तुमर्हति
तामुवाच महाभागे ब्रह्महत्यां पितामहः । स्वरेण मधुरेणाथ संक्षेपेण यथातथम्
मुच्यतां देवराजोऽयं मत्प्रियं कुरु भामिनि । ब्रूहि किं ते करोम्यद्य कामं त्वं किमिहेच्छसि
हत्योवाच। शक्रादपगमिष्यामि वचनात्ते नरोत्तम । देवदेव नमस्तेस्तु निवासं च ददस्व मे
महादेव उवाच। तथेति तां प्रतिज्ञाय हत्यां चापि पितामहः । उपायमथ शक्रस्य ब्रह्महत्यापनोदने
ततो वह्निं समाहूय ब्रह्मा वचनमब्रवीत् । शक्रहत्या चतुर्थांशं जातवेदो गृहाण भो
अग्निरुवाच। मम मोक्षस्य को हेतुर्ब्रह्महत्याकृते प्रभो । एतदिच्छामि विज्ञातुं तत्त्वतो लोकपूजित
ब्रह्मोवाच। यस्त्वां ज्वलंतमासाद्य न होष्यति नरः क्वचित् । बीजौषधितिलानग्रे फलमूलसमित्कुशान्
तदैव त्यक्षति त्वां च तत्रैव च निवत्स्यति । ब्रह्महत्या हव्यवाह व्येतु ते मनसो ज्वरः
ततः स परिजग्राह तद्वचो हव्यकव्यभुक् । पितामहश्च भगवान्तथा तदलभत्प्रियम्
ततो वृक्षौषधितृणान्याहूय स पितामहः । इममर्थं महाभागे वक्तुं समुपचक्रमे 6.168.
ततो वृक्षौषधितृणैस्तथैवोक्तं यथातथम् । व्यथितान्यग्निवद्देवि ब्रह्माणं वाक्यमब्रुवन्
अस्माकं ब्रह्महत्यायाः कथयंतः पितामह । स्वभाव निहिता तस्मान्न पुनर्हंतुमर्हसि
वयमग्निं तथा शीतं वर्षं च पवनेरितम् । सहामः सततं देव तथा छेदनभेदनम्
ब्रह्मोवाच। अकारणं नरो यस्तु युष्मच्छेदनभेदनम् । करिष्यति महामोहात्तमेषानु प्रयास्यति
महादेव उवाच। ततो महौषधितृणैरोमित्युक्तं महात्मभिः । ब्रह्माणमपि संपूज्य जग्मुश्चाथ यथागतम्
आहूयाप्सरसो देवस्ततो लोकपितामहः । वाचा मधुरया प्राह सांत्वयन्निव सत्तमे
इयं वृत्रादनुप्राप्ता ब्रह्महत्या वराङ्गनाः । चतुर्थमस्या भागं च मयोक्तं संप्रतीच्छथ
अप्सरा ऊचुः । ग्रहणे कृतबुद्धीनां देवेश तव शासनात् । संमोक्षसमयोऽस्माकं चिंतनीयः पितामह
पितामह उवाच। रजस्वलासु नारीषु यो वै मैथुनमाचरेत् । तमेषा यास्यति क्षिप्रं व्येतु वो मनसो ज्वरः
महादेव उवाच। तथेति हृष्टमनसः प्रत्युक्ता ह्यप्सरोगणाः । स्वानि स्थानानि संप्राप्य रेमिरे शैलजे तदा
ततश्च लोककृद्देवः पुनरेव पितामहः । आपः संचिंतयामास ततस्ताश्च समागमन्
ताश्च सर्वाः समागम्य ब्रह्माणममितौजसम् । इदमूचुर्वचो देवि प्रणिपत्य पितामहम्
इमाः स्म देव संप्राप्तास्त्वत्सकाशमरिंदम। शासनात्तव देवेश समाज्ञापय तत्प्रभो
ब्रह्मोवाच। इयं वृत्रादनुप्राप्ता पुरुहूतं भयानका । ब्रह्महत्या चतुर्थांशं यूयमस्याः प्रतीच्छथ