विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः। विष्णुना वासुकेर्द्दैत्याः पूर्वकाये निवेशिताः
ते तस्य प्राणवातेन वह्निना च हतत्त्विषः। निस्तेजसोऽसुराः सर्वे बभूवुरमरद्युते
तेनैव मुखनिःश्वासवायुनाथ बलाहकैः। पुच्छप्रदेशे वर्षद्भिस्तदा चाप्पयिताः सुराः
क्षीरोदमध्ये भगवान्ब्रह्मा ब्रह्मविदां वरः। महादेवो महातेजा विष्णुपृष्ठनिवासिनौ
बाहुभ्यां मंदरं गृह्य पद्मवत्स परंतपः। शृंखले च तदा कृत्वा गृहीत्वा मंदराचलम्
देवानां दानवानां च बलमध्ये व्यवस्थितः। क्षीरोदमध्ये भगवान्कूर्मरूपी स्वयं हरिः
अन्येन तेजसा देवानुपबृंहितवान्हरिः। मथ्यमाने ततस्तस्मिन्क्षीराब्धौ देवदानवैः
हविर्धान्यभवत्पूर्वं सुरभिः सुरपूजिता। जग्मुर्मुदं तदा देवा दानवाश्च महामते
व्याक्षिप्तचेतसः सर्वे बभूवुस्तिमितेक्षणाः। किमेतदिति सिद्धानां दिवि चिंतयतां तदा
बभूव वारुणी देवी मदाघूर्णितलोचना। कृतावर्त्ता ततस्तस्मात्प्रस्खलंती पदे पदे
एकवस्त्रा मुक्तकेशी रक्तांतस्तब्धलोचना। अहं बलप्रदा देवी मां वा गृह्णन्तु दानवाः
अशुचिं वारुणीं मत्वा त्यक्तवंतस्तदा सुराः। जगृहुस्तां तदा दैत्या ग्रहणान्तेसुराभवत्
मंथने पारिजातोभूद्देव श्रीनंदनो द्रुमः। रूपौदार्य्यगुणोपेतास्ततश्चाप्सरसां गणाः५० 1.4.
षष्टिकोट्यस्तदा जातास्सामान्या देव दानवैः। सर्वास्ताः कृतपूर्वास्तु सामान्याः पुण्यकर्मणा
ततः शीतांशुरभवद्देवानां प्रीतिदायकः। ययाचे शंकरो देवो जटाभूषणकृन्मम
भविष्यति न संदेहो गृहीतोयं मया शशी। अनुमेने च तं ब्रह्मा भूषणाय हरस्य तु
ततो विषं समुत्पन्नं कालकूटं भयावहं। तेन चैवार्दितास्सर्वे दानवाः सह दैवतैः
महादेवेन तत्पीतं विषं गृह्य यदृच्छया। तस्य पानान्नीलकंठस्तदा जातो महेश्वरः
पीतावशेषं नागास्तु क्षीराब्धेस्तु समुत्थितम्। ततो धन्वंतरिर्जातः श्वेतांबरधरः स्वयम्
बिभ्रत्कमंडलुं पूर्णममृतस्य समुत्थितः। ततः स्वस्थमनस्कास्ते वैद्यराजस्य दर्शनात्
ततश्चाश्वः समुत्पन्नो नागश्चैरावतस्तथा। तत स्फुरत्कांतीमतिविकासि कमलेस्थिता
श्रीर्द्देवी पयसस्तस्मादुत्थिता धृतपंकजा। तां तुष्टवुर्मुदायुक्ताः श्रीसूक्तेन महर्षयः
विश्वावसुमुखास्तस्या गंधर्वाः पुरतो जगुः। घृताचीप्रमुखास्तत्र ननृतुश्चाप्सरोगणाः
गंगाद्याः सरितस्तोयैः स्नानार्थमुपतस्थिरे। दिग्गजा हेमपात्रस्थमादाय विमलं जलम्
स्नापयांचक्रिरे देवीं सर्वलोकमहेश्वरीम्। क्षीरोदस्तु स्वयं तस्यै मालामम्लानपंकजाम्
ददौ विभूषणान्यंगे विश्वकर्मा चकार ह। दिव्यमाल्यांबरधरां स्नातां भूषणभूषिताम्
इंद्राद्याश्चामरगणा विद्याधरमहोरगाः। दानवाश्च महादैत्या राक्षसाः सह गुह्यकैः
कन्यामभिलषन्ति स्म ततो ब्रह्मा उवाच ह। वासुदेव त्वमेवैनां मया दत्तां गृहाण वै
देवाश्च दानवाश्चैव प्रतिषिद्धा मया त्विह। तुष्टोहं भवतस्तावदलौल्येनेह कर्मणा
सा तु श्रीर्ब्रह्मणा प्रोक्ता देवि गछस्व केशवं। मया दत्तं पतिं प्राप्य मोदस्व शाश्वतीः समाः