श्रीकृष्ण उवाच-। धर्मपुत्र महाभाग शृणु वक्ष्यामितेऽधुना । योक्ता पृष्टेन मांधात्रा वसिष्ठेन महात्मना
फाल्गुनस्य विशेषेण विशेषः कथितो नृप । आमलकीव्रतं पुण्यं विष्णुलोकफलप्रदम्
आमलक्यास्तले गत्वा जागरं तत्र कारयेत् । कृत्वा जागरणं रात्रौ गोसहस्रफलं लभेत्
मांधातोवाच - आमलकी कदा ह्येषा उत्पन्ना द्विजसत्तम । एतत्सर्वं ममाचक्ष्व परं कौतूहलं हि मे
कस्मादियं पवित्रा च कस्मात्पापप्रणाशिनी । कस्माज्जागरणं कृत्वा गोसहस्रफलं लभेत्
वसिष्ठ उवाच- कथयामि महाभाग यथेयमभवत्क्षितौ । आमलकी महावृक्षः सर्वपापप्रणाशनः
एकार्णवे पुरा जाते नष्टे स्थावरजंगमे । नष्टे देवासुरगणे प्रणष्टोरगराक्षसे
तत्र देवादिदेवेशः परमात्मा सनातनः । जगाम ब्रह्मपरममात्मनः पदमव्ययम्
ततोऽस्य जाग्रतो ब्रह्ममुखाच्छशिसमप्रभः । ष्ठीवनाद्बिंदुरुत्पन्नः स भूमौ निपपात ह
तस्माद्बिंदोः समुत्पन्नः स्वयं धात्री नगो महान् । शाखाप्रशाखाबहुलः फलभारेण नामितः
सर्वेषां चैव वृक्षाणामादिरोहः प्रकीर्तितः । ब्रह्मणाथ ततः पश्चात्संसृष्टाश्च इमाः प्रजाः
देवदानवगंधर्वयक्षराक्षसपन्नगान् । असृजद्भगवान्देवो महर्षींश्च तथामलान्
आजग्मुस्तत्र देवास्ते यत्र धात्री हरिप्रिया । तां दृष्ट्वा ते महाभाग परं विस्मयमागताः
न जानीम इमं वृक्षं चिंतयंतोऽभिसंस्थिताः । एवं चिंतयतां तेषां वागुवाचाशरीरिणी
आमलकी नगो ह्येष प्रवरो वैष्णवो मतः । अस्य संस्मरणादेव लभेद्गोदानजं फलम्
स्पर्शनाद्द्विगुणं पुण्यं त्रिगुणं धारणात्तथा । तस्मात्सर्वप्रयत्नेन सेव्या आमलकी सदा
सर्वपापहरा प्रोक्ता वैष्णवी पापनाशिनी । तस्या मूले स्थितो विष्णुस्तदूर्ध्वे च पितामहः
स्कंधे च भगवान्रुद्रः संस्थितः परमेश्वरः । शाखासु मुनयः सर्वे प्रशाखासु च देवताः
पर्णेषु चासते देवाः पुष्पेषु मरुतस्तथा । प्रजानां पतयः सर्वे फलेष्वेव व्यवस्थिताः
सर्वदेवमयी ह्येषा धात्री च कथिता मया । तस्मात्पूज्यतमा ह्येषा विष्णुभक्तिपरायणैः
ऋषय ऊचुः - को भवान्न हि जानीमः कस्मात्कारणतां गतः । देवो वा यदि वा चान्यः कथयस्व यथातथम्
वागुवाच - यः कर्ता सर्वभूतानां भुवनानां च सर्वशः । विस्मितान्विदुषः प्रेक्ष्य सोऽहं विष्णुः सनातनः
तच्छ्रुत्वा देवदेवस्य भाषितं ब्रह्मणः सुताः । अनादिनिधनं देवं स्तोतुं तत्र प्रचक्रमुः
नमो भूतात्मभूताय आत्मने परमात्मने । अच्युताय नमो नित्यमनंताय नमो नमः
दामोदराय कवये यज्ञेशाय नमो नमः । एवं स्तुतस्तु ऋषिभिस्तुतोष भगवान्हरिः
प्रत्युवाच महर्षींस्तानभीष्टं किं ददामि वः । ऋषय ऊचुः यदि तुष्टोऽसि भगवन्नस्माकं हितकाम्यया
व्रतं किंचित्समाख्याहि स्वर्गमोक्षफलप्रदम् । धनधान्यप्रदं पुण्यमात्मनस्तुष्टिकारकम्
अल्पायासं बहुफलं व्रतानामुत्तमं व्रतम् । कृतेन येन देवेश विष्णुलोके महीयते
विष्णुरुवाच- फाल्गुने शुक्लपक्षे तु पुष्येण द्वादशी यदि । भवेत्सा च महापुण्या महापातकनाशिनी
विशेषस्तत्र कर्त्तव्यः शृणुध्वं द्विजसत्तमाः । आमलकीं च संप्राप्य जागरं तत्र कारयेत्