प्रतिमासं च कर्त्तव्यं यावद्वर्षं भवेद्ध्रुवम् । यां तु कृत्वा तु भो दूता मुच्यते नात्र संशयः
उपवासस्य नियमः कर्त्तव्यो विष्णु तुष्टिदः । अद्य मे देवदेवेश उपवासो भविष्यति
द्वादश्यां पूज्य गोविंदं भक्तिभावसमन्वितम् । स्वप्नेंद्रियस्य वैकल्याद्भोजनं यच्च मैथुनम्
तत्सर्वं क्षम मे देव कृपां कृत्वा ममोपरि । एवं वै नियमं कृत्वा मध्याह्ने तीर्थमाव्रजेत्
मृद्गोमय तिलान्नीत्वा गंतव्यं विधिपूर्वकम् । स्नानं तत्र प्रकर्तव्यं व्रतसंपूर्णहेतवे
अश्वक्रांतेति मंत्रेण स्नानं कुर्याद्विशेषतः । अश्वक्रांते रथक्रांते विष्णुक्रांते वसुंधरे
मृत्तिके हर मे पापं यन्मया पूर्वसंचितम् । तया हतेन पापेन सर्वपापैः प्रमुच्यते
काश्यां चैव तु संभूतास्तिला वै विष्णुरूपिणः । तिलस्नानेन गोविंदः सर्वं पापं व्यपोहति
विष्णुदेहोद्भवा देवि महापापापहारिणी । सर्वं पापं हर त्वं वै सर्वेषां हि नमोऽस्तु ते
तुलसीपत्रकं धृत्वा नामोच्चारणपूर्वकम् । स्नानं सुकृतिभिः प्रोक्तं कर्तव्यं विधिपूर्वकम्
एवं स्नात्वा समुत्तीर्य परिधाय सुवाससी । तर्पयित्वा पितॄन्देवांस्ततो विष्णोस्तु पूजनम्
संस्थाप्य चाव्रणं कुंभं पंचपल्लवसंयुतम् । पंचरत्नसमोपेतं दिव्यस्रग्गंधवासितम्
जलपूर्णं सद्रव्यंच ताम्रपात्रसमन्वितम् । तत्रस्थं श्रीधरं देवं देवदेवं तपोनिधिम्
पूर्णेन विधिना राजन्कुर्यात्पूजां गरीयसीम् । मृद्गोमयादिरचितं मंडलं कारयेच्छुभम्
तंडुलैः शुक्लधौतैश्च अश्मपिष्टैश्च कारयेत् । धर्मराजः प्रकर्त्तव्यो हस्ताद्यव यवान्वितः
नदीं वैतरणीं ताम्रां स्थापयित्वा तदग्रतः । पूजयेच्च पृथक्सम्यक्समावाहनपूर्वकम्
आवाहयामि देवेशं यमं वै विश्वरूपिणम् । इहाभ्येहि महाभाग सान्निध्यं कुरु केशव
इदं पाद्यं श्रियः कांत सोपविष्टं हरे प्रभो । विश्वोद्यानरतो नित्यं कृपां कुरु ममोपरि
भूतिदाय नमः पादावशोकाय च जानुनी । उरू नमः शिवायेति विश्वमूर्ते नमः कटिम्
कंदर्पाय नमो मेढ्रमादित्याय फलं तथा । दामोदराय जठरं वासुदेवाय वै स्तनौ
श्रीधराय मुखं केशान्केशवायेति वै नमः । पृष्ठं शार्ङ्गधरायेति चरणौ वरदाय च
स्वनाम्ना शंखचक्रासिगदापरशुपाणये । सर्वात्मने नमस्तुभ्यं शिर इत्यभिधीयते 6.66.
मत्स्यं कूर्मं च वाराहं नारसिंहं च वामनम् । रामं रामं च कृष्णं च बुधं कल्किं नमोऽस्तु ते
सर्वपापौघनाशार्थं पूजयामि नमो नमः । एभिश्च सर्वशो मंत्रैर्विष्णुं ध्यात्वा प्रपूजयेत्
धर्मराज नमस्तेऽस्तु धर्मराज नमोऽस्तु ते । दक्षिणाशापते तुभ्यं नमो महिषवाहन
चित्रगुप्त नमस्तुभ्यं विचित्राय नमोनमः । नरकार्तिप्रशांत्यर्थं कामान्यच्छ ममेप्सितान्
यमाय धर्मराजाय मृत्यवे चांतकाय च । वैवस्वताय कालाय सर्वभूतक्षयाय च
वृकोदराय चित्राय चित्रगुप्ताय वै नमः । नीलाय चैव दध्नाय नित्यं कुर्यान्नमो नमः
एवं द्वादशभिः पूज्यो नामभिर्धर्मराट्प्रभुः। वैतरणी सुदुःपारे पापघ्नि सर्वकामदे
इहाभ्येहि महाभागे गृहाणार्घं मया कृतम् । यमद्वारपथे घोरे ख्याता वैतरणी नदी