श्रीधराय मुखं केशान्केशवायेति वै नमः । पृष्ठं शार्ङ्गधरायेति चरणौ वरदाय च
स्वनाम्ना शंखचक्रासिगदापरशुपाणये । सर्वात्मने नमस्तुभ्यं शिर इत्यभिधीयते 6.66.
मत्स्यं कूर्मं च वाराहं नारसिंहं च वामनम् । रामं रामं च कृष्णं च बुधं कल्किं नमोऽस्तु ते
सर्वपापौघनाशार्थं पूजयामि नमो नमः । एभिश्च सर्वशो मंत्रैर्विष्णुं ध्यात्वा प्रपूजयेत्
धर्मराज नमस्तेऽस्तु धर्मराज नमोऽस्तु ते । दक्षिणाशापते तुभ्यं नमो महिषवाहन
चित्रगुप्त नमस्तुभ्यं विचित्राय नमोनमः । नरकार्तिप्रशांत्यर्थं कामान्यच्छ ममेप्सितान्
यमाय धर्मराजाय मृत्यवे चांतकाय च । वैवस्वताय कालाय सर्वभूतक्षयाय च
वृकोदराय चित्राय चित्रगुप्ताय वै नमः । नीलाय चैव दध्नाय नित्यं कुर्यान्नमो नमः
एवं द्वादशभिः पूज्यो नामभिर्धर्मराट्प्रभुः। वैतरणी सुदुःपारे पापघ्नि सर्वकामदे
इहाभ्येहि महाभागे गृहाणार्घं मया कृतम् । यमद्वारपथे घोरे ख्याता वैतरणी नदी
तस्यामुद्धरणार्थाय जन्ममृत्युजरातिगा । या दुस्तरा दुष्कृतिभिः सर्वप्राणिभयापहा
यस्यां भयात्प्रमज्जंति प्राणिनो यातनापराः । तर्तुकामस्तु तां घोरं जया देवि नमोनमः
तस्यां देवाधितिष्ठंति या सा वैतरणी नदी । सा चापि पूजिता भक्त्या प्रीत्यर्थं केशवस्य च
यस्यास्तटे प्रविशंति ऋषयः पितरस्तथा । सा चापि सिंधुरूपेण पूजिता पापहारिका
तरीतुं तां प्रदास्यामि सर्वपापविमुक्तये । पुण्यार्थं संप्रवक्ष्यामि तुभ्यं वैतरणी नदीम्
मयासि पूजिता भक्त्या प्रीत्यर्थं केशवस्य च । कृष्णकृष्णजगन्नाथ संसारादुद्धरस्व माम्
नामग्रहणमात्रेण सर्वं पापं हरस्व मे । यज्ञोपवीतं परमं कारितं नवतंतुभिः
प्रतिगृह्णीष्व देवेश प्रीतो यच्छ ममेप्सितम् । इदं तव च तांबूलं यथाशक्त्या सुशोभनम्
प्रतिगृह्णीष्व देवेश मामुद्धर भवार्णवात् । पंचवर्ती प्रदीपोऽयं देवेशारार्तिकं तव
मोहांधकारद्युमणे भक्तियुक्तो भवार्तिहृत् । परमान्नं सुपक्वान्नं समस्तरससंयुतम्
निवेदितं मया भक्त्या भगवन्प्रतिगृह्यताम् । द्वादशाक्षरमंत्रेण यथासंख्य जपेन च
प्रीयतां मे श्रियःकांतः प्रीतो यच्छतु वांछितम् । पंच गावः समुत्पन्ना मथ्यमाने महोदधौ
तासां मध्ये तु या नंदा तस्यै धेन्वै नमोनमः । गां संपूज्य विधानेन अर्घ्यं दद्यात्समाहितः
सर्वकामदुघे देवि सर्वांतकनिवारिणी । आरोग्यं संततिं दीर्घां देहि नंदिनि मे सदा
पूजिता च वसिष्ठेन विश्वामित्रेण धीमता । कपिले हर मे पापं यन्मया पूर्वसंचितम्
गावो ममाग्रतः संतु गावो मे संतु पृष्ठतः । नाके मामुपतिष्ठंतु हेमशृंगी पयोमुचः
सुरभ्यः सौरभेयाश्च सरितः सागरा यथा । सर्वदेवमये देवि सुभद्रे भक्तवत्सले
एवं संपूज्य विधिवद्दद्याद्गोषु गवाह्निकम् । सौरभेयः सर्वहिताः पवित्राः पापनाशनाः
प्रतिगृह्णंतु मे ग्रासं गावस्त्रैलोक्यमातरः । गंगदायै नमो भूत्यै सर्वपापप्रहाणये
अनेनैव तु मंत्रेण गदां वैधारयेद्बुधः । पं नमः पद्मनाभाय पद्मं वै धारयेत्सुधीः