चतुष्टयी चतुर्थ्येषा प्रोक्ता शंतनुनंदन। एते वै षोडश प्रोक्ता ऋत्विजो वेदचिंतकैः
शतानि त्रीणि षष्टिश्च यज्ञाः सृष्टाः स्वयंभुवा॥ एतांश्चैतेषु सर्वेषु प्रवदंति सदा द्विजान्
सदस्यं केचिदिच्छंति त्रिसामाध्वर्युमेव च। ब्रह्माणं नारदं चक्रे ब्राह्मणाच्छंसि गौतमम्
देवगर्भं च पोतारमाग्नीध्रं चैव देवलम्। उद्गातांगिरसः प्रत्युद्गाता च पुलहस्तथा
नारायणः प्रतिहर्ता सुब्रह्मण्योत्रिरुच्यते। तस्मिन्यज्ञे भृगुर्होता वसिष्ठो मैत्र एव च
अच्छावाकः क्रतुः प्रोक्तो ग्रावस्तुच्च्यवनस्तथा। पुलस्त्योद्ध्वर्युरेवासीत्प्रतिष्ठाता च वै शिबिः
बृहस्पतिस्तत्र नेष्टा उन्नेता शांशपायनः। धर्मः सदस्यस्तत्रासीत्पुत्रपौत्रसहायवान्
भरद्वाजः शमीकश्च पुरुकुत्सो युगंधरः। एनकस्तीर्णकश्चैव केशः कुतप एव च
गर्गो वेदशिराश्चैव त्रिसामाद्ध्वर्यवः कृताः। कण्वादयस्तथा चान्ये मार्कंडो गंडिरेव च
पुत्रपौत्रसमेताश्च सशिष्याः सहबांधवाः। कर्माणि तत्र कुर्वाणा दिवानिशमतंद्रिताः
मन्वंतरे व्यतीते तु यज्ञस्यावभृथोभवत्। दक्षिणा ब्रह्मणे दत्ता प्राची होतुस्तु दक्षिणा
अद्ध्वर्यवे प्रतीची तु उद्गातुश्चोत्तरा तथा। त्रैलोक्यं सकलं ब्रह्मा ददौ तेषां तु दक्षिणाम्
धेनूनां च शतं प्राज्ञैर्दातव्यं यज्ञसिद्धये। अष्टौ तु यज्ञवाहानां चत्वारिंशाधिकास्तथा
द्वितीयस्थानिनां चैव चतुर्विंशत्प्रकीर्तिताः। षोडशैव तृतीयानां देया वै धेनवः शुभाः
द्वादशैव तथा चान्या आग्नीध्रादिषु दापयेत्। अनया संख्यया चैव ग्रामान्दासीरजाविकं
सहस्रभोज्यं दातव्यं स्नात्वा चावभृथे क्रतौ। यजमानेन सर्वस्वं देयं स्वायंभुवोब्रवीत्
अद्ध्वर्यूणां सदस्यानां स्वेच्छया दानमिष्यते। विष्णुं चाहूय वै ब्रह्मा वाक्यमाह मुदान्वितः
अभिप्रसाद्य सावित्रीं त्वमिहानय सुव्रत। त्वयि दृष्टे न सा कोपं करिष्यति शुभानना
स्निग्धैः सानुनयैर्वाक्यैर्हेतुयुक्तैर्विशेषतः। त्वं सदा मधुराभाषी जिह्वा ते स्रवतेमृतम्
यः करोति न ते वाक्यं त्रैलोक्ये न स दृश्यते। गंधर्वैः सहितो गत्वा प्रियां मम समानय
त्वया प्रसादिता साद्ध्वी तुष्टा सा त्वेष्यति ध्रुवम्। विलंबो न त्वया कार्यो व्रज माधव माचिरम्
लक्ष्मीस्ते पुरतो यातु सावित्र्याः सदनं शुभा। तस्यास्त्वं पदवीं गच्छ सांत्वयस्व प्रियां मम
न च ते विप्रियं देवि विविक्तं कर्तुमीहते। मुखं प्रेक्ष्य सदा कालं वर्तते तव सुंदरि
एवंविधानि वाक्यानि मधुराणि बहूनि च। देवी श्रावयितव्या सा यथातुष्टाऽचिराद्भवेत्
एवमुक्तस्तदा विष्णुर्ब्रह्मणा लोककारिणा। जगाम त्वरितो भूत्वा सावित्री यत्र तिष्ठति
दूरादेवागच्छमानं पत्न्या सह च केशवम्। उत्तस्थौ सत्वरा भूत्वा विष्णुना चाभिवंदिता
नमस्ते देवदेवेशि ब्रह्मपत्नि नमोस्तु ते। त्वां नमस्कृत्य सर्वो हि जनः पापात्प्रमुच्यते
पतिव्रता महाभागा ब्रह्मणस्त्वं हृदि स्थिता। अहर्निशं चिंतयंस्त्वां प्रसादं तेभिकांक्षति
सखीं चैनां प्रियां पृच्छ लक्ष्मीं भृगुसुतां सतीम्। यदि च श्रद्दधा नासि वाक्यादस्मात्सुलोचने
एवमुक्त्वा ततः शौरिः सावित्र्याश्चरणद्वयम्। उभाभ्यां चैव हस्ताभ्यां क्षम देवि नमोस्तु ते