योगयुक्त्या तु तद्भस्म प्लाव्यमानं समन्ततः शाक्तेनामृतवर्षेण चाधिकारान्निवर्तयेत्
अतो मृत्युंजयायेत्थममृतप्लावनं सदा शिवशक्त्यमृतस्पर्शे लब्धं येन कुतो मृतिः
यो वेद दहनं गुह्यं प्लावनं च यथोदितम् अग्नीषोमपदं हित्वा न स भूयो ऽभिजायते
शिवाग्निना तनुं दग्ध्वा शक्तिसौम्या मृतेन यः प्लावयेद्योगमार्गेण सो ऽमृतत्वाय कल्पते
हृदि कृत्वेममर्थं वै देवेन समुदाहृतम् अग्नीषोमात्मकं विश्वं जगदित्यनुरूपतः
निवेदयामि जगतो वागर्थात्म्यं कृतं यथा षडध्ववेदनं सम्यक् समासान्न तु विस्तरात्
नास्ति कश्चिदशब्दार्थो नापि शब्दो निरर्थकः ततो हि समये शब्दस्सर्वस्सर्वार्थबोधकः
प्रकृतेः परिणामो ऽयं द्विधा शब्दार्थभावना तामाहुः प्राकृतीं मूर्तिं शिवयोः परमात्मनोः
शब्दात्मिका विभूतिर्या सा त्रिधा कथ्यते बुधैः स्थूला सूक्ष्मा परा चेति स्थूला या श्रुतिगोचरा
सूक्ष्मा चिन्तामयी प्रोक्ता चिंतया रहिता परा या शक्तिः सा परा शक्तिश्शिवतत्त्वसमाश्रया
ज्ञानशक्तिसमायोगादिच्छोपोद्बलिका तथा सर्वशक्तिसमष्ट्यात्मा शक्तितत्त्वसमाख्यया
समस्तकार्यजातस्य मूलप्रकृतितां गता सैव कुण्डलिनी माया शुद्धाध्वपरमा सती
सा विभागस्वरूपैव षडध्वात्मा विजृंभते तत्र शब्दास्त्रयो ऽध्वानस्त्रयश्चार्थाः समीरिताः
सर्वेषामपि वै पुंसां नैजशुद्ध्यनुरूपतः लयभोगाधिकारास्स्युस्सर्वतत्त्वविभागतः
कलाभिस्तानि तत्त्वानि व्याप्तान्येव यथातथम् परस्याः प्रकृतेरादौ पञ्चधा परिणामतः
कलाश्च ता निवृत्त्याद्याः पर्याप्ता इति निश्चयः मंत्राध्वा च पदाध्वा च वर्णाध्वा चेति शब्दतः
भुवनाध्वा च तत्त्वाध्वा कलाध्वा चार्थतः क्रमात् अत्रान्योन्यं च सर्वेषां व्याप्यव्यापकतोच्यते
मंत्राः सर्वैः पदैर्व्याप्ता वाक्यभावात्पदानि च वर्णैर्वर्णसमूहं हि पदमाहुर्विपश्चितः
वर्णास्तु भुवनैर्व्याप्तास्तेषां तेषूपलंभनात् भुवनान्यपि तत्त्वौघैरुत्पत्त्यांतर्बहिष्क्रमात्
व्याप्तानि कारणैस्तत्त्वैरारब्धत्वादनेकशः अंतरादुत्थितानीह भुवनानि तु कानिचित्
पौराणिकानि चान्यानि विज्ञेयानि शिवागमे सांख्ययोगप्रसिद्धानि तत्त्वान्यपि च कानिचित्
शिवशास्त्रप्रसिद्धानि ततोन्यान्यपि कृत्स्नशः कलाभिस्तानि तत्त्वानि व्याप्तान्येव यथातथम्
परस्याः प्रकृतेरादौ पञ्चधा परिणामतः कलाश्च ता निवृत्त्याद्या व्याप्ताः पञ्च यथोत्तरम्
व्यापिकातः परा शक्तिरविभक्ता षडध्वनाम् परप्रकृतिभावस्य तत्सत्त्वाच्छिवतत्त्वतः
शक्त्यादि च पृथिव्यन्तं शिवतत्त्वसमुद्भवम् व्याप्तमेकेन तेनैव मृदा कुंभादिकं यथा
शैवं तत्परमं धाम यत्प्राप्यं षड्भिरध्वभिः व्यापिका ऽव्यापिका शक्तिः पञ्चतत्त्वविशोधनात्
निवृत्त्या रुद्रपर्यन्तं स्थितिरण्डस्य शोध्यते प्रतिष्ठया तदूर्ध्वं तु यावदव्यक्तगोचरम्
तदूर्ध्वं विद्यया मध्ये यावद्विश्वेश्वरावधि शान्त्या तदूर्ध्वं मध्वान्ते विशुद्धिः शान्त्यतीतया
यामाहुः परमं व्योम परप्रकृतियोगतः एतानि पञ्चतत्त्वानि यैर्व्याप्तमखिलं जगत्
तत्रैव सर्वमेवेदं द्रष्टव्यं खलु साधकैः अध्वव्याप्तिमविज्ञाय शुद्धिं यः कर्तुमिच्छति