तावत्सर्वाणि क्षेत्राणि विवदंति महीतले यावच्छिवपुराणं हि नोदेष्यति महीतले
तावत्सर्वाणि पीठानि विवदंति महीतले यावच्छिवपुराणं हि नोदेष्यति महीतले
तावत्सर्वाणि दानानि विवदंति महीतले यावच्छिवपुराणं हि नोदेष्यति महीतले
तावत्सर्वे च ते देवा विवदंति महीतले यावच्छिवपुराणं हि नोदेष्यति महीतले
तावत्सर्वे च सिद्धान्ता विवदंति महीतले यावच्छिवपुराणं हि नोदेष्यति महीतले
अस्य शैवपुराणस्य कीर्तनश्रवणाद्द्विजाः फलं वक्तुं न शक्नोमि कार्त्स्न्येन मुनिसत्तमाः
तथापि तस्य माहात्म्यं वक्ष्ये किंचित्तु वोनघाः चित्तमाधाय शृणुत व्यासेनोक्तं पुरा मम
एतच्छिवपुराणं हि श्लोकं श्लोकार्धमेव च यः पठेद्भक्तिसंयुक्तस्स पापान्मुच्यते क्षणात्
एतच्छिवपुराणं हि यः प्रत्यहमतंद्रितः यथाशक्ति पठेद्भक्त्या स जीवन्मुक्त उच्यते
एतच्छिवपुराणं हि यो भक्त्यार्चयते सदा दिने दिने ऽश्वमेधस्य फलं प्राप्नोत्यसंशयम्
एतच्छिवपुराणं यस्साधारणपदेच्छया अन्यतः शृणुयात्सो ऽपि मत्तो मुच्येत पातकात्
एतच्छिवपुराणं यो नमस्कुर्याददूरतः सर्वदेवार्चनफलं स प्राप्नोति न संशयः
एतच्छिवपुराणं वै लिखित्वा पुस्तकं स्वयम् यो दद्याच्छिवभक्तेभ्यस्तस्य पुण्यफलं शृणु
अधीतेषु च शास्त्रेषु वेदेषु व्याकृतेषु च यत्फलं दुर्लभं लोके तत्फलं तस्य संभवेत्
एतच्छिवपुराणं हि चतुर्दश्यामुपोषितः शिवभक्तसभायां यो व्याकरोति स उत्तमः
प्रत्यक्षरं तु गायत्रीपुरश्चर्याफलं लभेत् इह भुक्त्वाखिलान्कामानंते निर्वाणतां व्रजेत्
उपोषितश्चतुर्दश्यां रात्रौ जागरणान्वितः यः पठेच्छृणुयाद्वापि तस्य पुण्यं वदाम्यहम्
कुरुक्षेत्रादिनिखिलपुण्यतीर्थेष्वनेकशः आत्मतुल्यधनं सूर्यग्रहणे सर्वतोमुखे
विप्रेभ्यो व्यासमुख्येभ्यो दत्त्वायत्फलमश्नुते तत्फलं संभवेत्तस्य सत्यं सत्यं न संशयः
एतच्छिवपुराणं हि गायते योप्यहर्निशम् आज्ञां तस्य प्रतीक्षेरन्दवा इन्द्रपुरोगमाः
एतच्छिवपुराणं यः पठञ्छृण्वन्हि नित्यशः यद्यत्करोति सत्कर्म तत्कोटिगुणितं भवेत्
समाहितः पठेद्यस्तु तत्र श्रीरुद्रसंहिताम् स ब्रह्मघ्नो ऽपि पूतात्मा त्रिभिरेव दिनैर्भवेत्
तां रुद्रसंहितां यस्तु भैरवप्रतिमांतिके त्रिः पठेत्प्रत्यहं मौनी स कामानखिलांल्लभेत्
तां रुद्रसंहितां यस्तु सपठेद्वटबिल्वयोः प्रदक्षिणां प्रकुर्वाणो ब्रह्महत्या निवर्तते
कैलाससंहिता तत्र ततो ऽपि परमस्मृता ब्रह्मस्वरूपिणी साक्षात्प्रणवार्थप्रकाशिका
कैलाससंहितायास्तु माहात्म्यं वेत्ति शंकरः कृत्स्नं तदर्धं व्यासश्च तदर्धं वेद्म्यहं द्विजाः
तत्र किंचित्प्रवक्ष्यामि कृत्स्नं वक्तुं न शक्यते यज्ज्ञात्वा तत्क्षणाल्लोकश्चित्तशुद्धिमवाप्नुयात्
न नाशयति यत्पापं सा रौद्री संहिता द्विजाः तन्न पश्याम्यहं लोके मार्गमाणो ऽपि सर्वदा
शिवेनोपनिषत्सिंधुमन्थनोत्पादितां मुदा कुमारायार्पितां तां वै सुधां पीत्वा ऽमरो भवेत्
ब्रह्महत्यादिपापानां निष्कृतिं कर्तुमुद्यतः मासमात्रं संहितां तां पठित्वा मुच्यते ततः