अथ नारद निर्दिष्टमवज्ञाफलमात्मनः
शिवभूमिरियं ख्याता परितो योजनद्वयम् 1.3.1.6.
सप्तर्षयः पुरा भूमौ शापदोषसमन्विताः
शापमोक्षं ददौ श्रीमान्सप्तर्षीणां महात्मनाम्
शोणाचलस्य निकटे दृश्यते पावनं शुभम्
अंतर्हितप्रार्थितार्थो दारुहस्तपुटे वहन्
दारुहस्तपुटे तीर्थे निचिक्षेप पिपासतः
अथ शोणाचलं प्राप्तः कथं वा दारुहस्तकः
लब्धपादश्च सहसा जगाम च निजालयम्
स्वयं गृहीत्वा चालोक्य ववंदेऽरुणपर्वतम्
विस्मयोत्फुल्लनयनैः शिवभक्तैर्महात्मभिः
वाली शक्रसुतः श्रीमाञ्छ्रंगादुदयभूभृतः 1.3.1.6.
आलुलोकेऽरुणगिरिं मध्ये देवनमस्कृतम्
पित्रा शक्रेण संगम्य चोदितः शोणपर्वतम्
नलः पूर्वं समभ्यर्च्य स्वसृष्टा मानवप्रियाः
इलः प्रविश्य सहसा गौरीवनमखंडितम्
वशिष्ठेन समादिष्टः शोणाद्रिं समपूजयत्
सोमोपदेशाद्भक्त्याथ सस्मारारुणपर्वतम्
लेभे च परमं स्थानमप्राप्यममरैरपि
न मुक्तिं प्राप योगेन मृगजन्मनि संगतः
पुनर्भृगूपदेशेन शोणाद्रिमिममर्चयन्
सरस्वती च सावित्री श्रीर्भूमिः सरितस्तथा 1.3.1.6.
भास्करः पूर्वदिग्भागे विश्वामित्रस्तु दक्षिणे
योजनद्वयपर्यंते सीमाः शैलेषु संस्थिताः
स्थिताः सीमावसानेषु शोणाद्रीशमवस्थितम्
अस्योत्तरस्मिञ्छिखरे दृश्यते वटभूरुहः
यस्य च्छायातिमहती सर्वदा मण्डलाकृतिः
अष्टभिः परितो लिंगैरष्टदिक्पालपूजितैः
नृपाणां शम्भुभक्तानां शंकराज्ञानुपालिनाम्
बकुलश्च महांस्तत्र सदार्थितफलप्रदः