अगस्त्यश्च वशिष्ठश्च संपूज्यारुणभूधरम्
हिरण्यगर्भतनयः पुरा शोणनदः पुमान् 1.3.1.6.
अत्र शोणनदी पुण्या प्रवहत्यमलोदका
वायव्याश्च दिशो भागे वायुतीर्थं च शोभते
उत्तरेऽस्य गिरेस्तीर्थं सुवर्णकमलोज्ज्वलम्
कौबेरं तीर्थमेशान्यामैशान्यं तीर्थमुत्तमम्
तस्यैव पश्चिमे भागे विष्णुः कमललोचनः
नवग्रहाः पुरा तत्र स्नात्वा ग्रहपदं गताः
दुर्गा विनायक स्कन्दो क्षेत्रपालः सरस्वती
गंगा च यमुना चैव गोदावरी सरस्वती
एता गूढा निषेवंते पूर्वाद्याशासु संततम्
अन्याश्च सरितो दिव्याः पार्थिव्यश्च शुभोदकाः 1.3.1.6.
आगस्त्यं दक्षिणे भागे तीर्थं महदुदाहृतम्
अत्रागस्त्यः समागत्य स्नात्वा मुनिगणावृतः
वाशिष्ठमुत्तरे भागे तीर्थं दिव्यं शुभोदयम्
अत्र मेरोः समागत्य वशिष्ठो भगवानृषिः
गंगानाम महत्तीर्थं पूर्वोत्तरदिशि स्थितम्
गंगाद्याः सरितः सर्वाः कार्त्तिके मासि संगताः
ब्राह्म्यं नाम महातीर्थमरुणाद्रीशसन्निधौ
मार्गे मासि समागत्य ब्रह्मलोकात्पितामहः
पौषे मासि समागत्य स्नात्वा तीर्थे निजैः सुरैः
शैवंनाम महातीर्थं संनिधौ तत्र वर्तते 1.3.1.6.
अत्र शम्भुर्गणैः सार्द्धं माघे मासि प्रसीदति
आग्नेयमग्निदिग्भागे तीर्थं सौभाग्यदायकम्
अनंगोपि स्मरः स्नात्वा फाल्गुने मासि संगतः
दिशि दक्षिणपूर्वस्यां वैष्णवं तीर्थमद्भुतम्
चैत्रे मासि समागत्य विष्णुस्तत्र रमापतिः
सौरंनाम महातीर्थं कौबेरदिशि जृंभितम्
वैशाखे मासि दिनकृत्स्नात्वात्रेशं निषेवते
आश्विनं पावनं तीर्थमीशब्रह्मोत्तरे स्थितम्