वेत्सि शंभोः प्रियावासं कैलासं नित्यसेवकः 1.3.2.2.
स्थानानि खंडपरशोरित्युक्तानि मया पुरा
इत्यूचिवानेष शिलादनंदनो मुनेर्मृकण्डोस्तनयं मुनीश्वरम्
किं मादृशोऽस्ति ते शिष्यस्त्वत्कृपैवात्र साक्षिणी
स्थानेषु प्राक्त्वदुक्तेषु फलानि च पृथक्पृथक्
चराचराणां भूतानां जानतामप्यजानताम्
पश्यैतेन मयैकेन भगवान्नानुराध्यसे
पुलहेन पुलस्त्येन वशिष्ठेन मरीचिना
जाबालिना जैमिनिना धौम्येन जमदग्निना
पिप्पलादेन कण्ठेन कुमुदेनोपमन्युना
विभांडकेन व्यासेन कण्वरीषेण कंडुना
चंडकौशिकशांडिल्यशाकटायनकौशिकैः
आपस्तंबपृथुस्तंबभार्गवोदंकपर्वतैः 1.3.2.3.
कौंडिन्यपुण्डरीकाभ्यां रैभ्येण तृणबिन्दुना
बोधायनसुबोधाभ्यां हारीतेन मृकण्डुना
कांक्वार्येण नदन्तेन देवदत्तेन न्यंकुना
लोकाक्षिणा विश्रवसा सैंधवेन सुमंतुना
ऋष्यशृङ्गैकपात्क्रौंचदृढगोमुखदेवलैः
सनत्कुमारसनकसनंदनसनातनैः
मैत्रेयपुष्पजित्सत्यतपःशालीष्यशैशिरैः
वैशंपायनकौशल्यशारद्वतकपिध्वजैः
कृष्णातपोत्तमानंतकरुणामलकप्रियैः
नरनारायणाभ्यां च दिव्यैश्चान्यैर्महर्षिभिः 1.3.2.3.
माहेश्वराग्रगण्यस्त्वं समस्तागमपारगः
त्वन्मुखादेव भगवन्वयमेते सुशिक्षिताः
दिव्यागमपुराणानि द्रष्टव्यः परमेश्वरः
त्वयि यद्यस्ति नो भक्तिर्दया चास्मासु ते यदि
इत्थं मृकण्डुतनयेन स नंदिकेशो विज्ञापितः सविनयं स्मयमानवक्त्रम्
तव चेन्नाभिधास्यामि कस्य वान्यस्य कथ्यते
त्वादृगन्योस्ति किं लोके शिवधर्मपरायणः