त्रिःशोणाचलनाथेति निनदन्ननघो भवेत्
अरुणेश्वरमंत्रं च जपेन्मोक्षेच्छुरादरात्
कुर्वतारुणशैलस्य तत्प्राप्यं शुभमंजसा
प्रीत्युत्कर्षेऽपि च बुधैरुच्चार्योऽरुणशंकरः 1.3.2.6.
त्रीण्यहान्यरुणक्षेत्रे वसन्मुच्येत पातकैः
एष दक्षिणकैलासो योसावरुणपर्वतः
अस्मिन्स्मरणमात्रेण तारतम्यं विचिंत्यताम्
कर्म सेतौ च यत्पुंसां शोणक्षेत्रे ततोऽधिकम्
राजसूयाश्वमेधौ च कुर्याच्छोणाचले बुधः
तस्य चांद्रायणशतं भवेत्सांतपनायुतम्
अनुष्ठितानि कल्पोक्तं कुर्वंति द्विगुणं फलम्
इति नंदिकेश्वरमुखेन शुश्रुवान्मुनिनंदनोथ निरयप्रतिक्रियाम्
अवश्यं तस्य सिध्यंति सार्वभौममहर्द्धयः
सौम्यवारेऽरुणाद्रीशं कस्तूरीकरवीरकैः
गुरुवारे सितांभोजैः शोणेशं वरिवस्यतः
चंपकैर्मल्लिकाभिश्च शुक्रवारे समर्चयेत्
सौरिवारे च जातीभिस्समाराध्यारुणेश्वरम्
प्रथमायां तिथौ देवस्योपहारं समर्पयेत्
द्वितीयस्यां तिथौ भक्त्या यो दध्यन्नं निवेदयेत्
तृतीयायां च योऽपूपैः शोणेशं परितर्पयेत्
चतुर्थ्यामरुणेशाय पूर्णकुम्भोत्करादिकम्
मुद्गौदनं च पंचम्यामुपहारं प्रकल्पयेत 1.3.2.7.
षष्ठ्यां गुडौदनं दद्यादरुणाचलशम्भवे
तिलौदनं यस्सप्तम्यां शोणेशाय समर्पयेत्
अष्टम्यां राजशाल्यन्नं यो दद्याच्छोणशम्भवे
गोधूमान्नं नवम्यां च शोणाद्रीशाय योऽर्पयेत्
दशम्यां शोणनाथाय यः करंभं निवेदयेत्
पृथुकैरुपहारान्य एकादश्यां प्रकल्पयेत्
द्वादश्यां शोणनाथाय सूपौदननिवेदनम्
यः सक्तूनरुणेशाय त्रयोदश्यां समर्पयेत्