तत्र स्नात्वा नरो धीमान्विजितेन्द्रिय आदरात्
आश्विने शुक्लपक्षस्य एकादश्यां जितव्रतः
विष्णुं संपूज्य विधिवत्सर्वान्कामानवाप्नुयात्
तस्मात्क्षीरोदकस्थानान्नैर्ऋते दिग्दले श्रितम्
सर्वपापप्रशमनं पुण्यामृततरंगितम् 2.8.7.
यज्ञं च विधिवच्चक्रे बृहस्पतिरुदारधीः सुपर्णच्छायसंपन्नं कुण्डं तत्पापिदुर्ल्लभम्
इन्द्रादयोऽपि विबुधा यत्र स्नात्वा प्रयत्नतः
यत्र स्नानेन दानेन नरो मुच्येत किल्बिषात्
भाद्रे शुक्ले तु पंचम्यां यात्रा तत्र फलप्रदा
बृहस्पतेस्तथा विष्णोः पूजां तत्र य आचरेत्
भवेद्बृहस्पतेः पीडा यस्य गोचरवेधतः
होमं कृत्वा गुरोर्मूर्तिः सुवर्णेन विनिर्मिता
वेदज्ञायातिशुचये स्नात्वा पीडापनुत्तये
एवं कृते न संदेहो ग्रहपीडा प्रणश्यति
तद्दक्षिणे मुनिश्रेष्ठ रुक्मिणीकुण्डमुत्तमम् 2.8.7.
तत्र विष्णुः स्वयं चक्रे निवासं सलिले तदा
तत्र स्नानं तथा दानं होमं वैष्णवमंत्रकम्
तत्र सांवत्सरी यात्रा कर्त्तव्या सुप्रयत्नतः
पुत्रवाञ्जायते वन्ध्यो यात्रां कृत्वा न संशयः
भुक्त्वा भोगान्समग्रांश्च विष्णुलोके स मोदते
सर्वकाममवाप्नोति तत्र स्नानेन मानवः
कर्त्तव्या विधिवत्पूजा ब्राह्मणानां विशेषतः
पीतांबरधरः स्रग्वी नारदादिभिरीडितः
सर्वकामफलावाप्त्यै वक्षोलक्षितकौस्तुभः
एवं कृते न संदेहः सर्वान्कामानवाप्नुयात् 2.8.7.
अतः परं प्रवक्ष्यामि तीर्थमन्यदघापहम्
परं पवित्रमतुलं सर्वकामार्थसिद्धिदम्
रुक्मिणीकुण्डवायव्यदिग्दले संस्मृतं शुभम्
तस्य रक्षार्थमत्यर्थं रक्षितो यक्षउच्चकैः
हरिश्चंद्रं नरपतिं राज्यसूयकरं परम्