दीपाग्निना विना नैव तमोदारु प्रदह्यते
पप्रच्छुस्ते पुनः सर्वे हृष्टा दामोदरं विभुम्
घोरे तमसि वै मग्ना नाग्निं जानीमहे वयम्
तेन दीपं प्रतिज्वाल्य देवाः शिवपरायणाः
दत्ते दीपे ततो देवैर्दृष्टो हृष्टो महेश्वरः
ततो देवाः सुखं प्रापुः स्वर्गे सेन्द्रपुरोगमाः
दीपदानफलं ज्ञात्वा दैतेयाश्चापि विस्मिताः
पूजयित्वा महादेवं पुष्पैश्च निर्मलैर्जलैः
स्वस्थाने चाभवन्सर्वे दीपदानाच्च शोभनाः
निराहारास्ततो व्यास पिशाचा वै निराश्रयाः 5.1.30.
चंडालादग्निमानीय ददुर्दीपं शिवे रताः ।। । दीपदानफलं ते वै पुत्रदारसमन्विताः
लीढमन्नं गतरसं पूति पर्युषितं तथा
भुंजानास्ते सदा हृष्टा रमंते दुष्टभूमिषु
दीपदानफलं ज्ञात्वा ददुर्दीपं शिवाग्रतः
स्थानेषु मुदितास्तेषु रमंते सुखिनस्तदा
ततो घोरं स्थितं सम्यक्प्रेतलोकेषु सर्वदा
दामोदरं जगन्नाथमूचुः सर्वे सुरोत्तमाः
गंधर्वाश्च तथा यक्षाः सिद्धा विद्याधरोरगाः
स्थानेषु च सदा ह्येषु सुखिनश्च रमामहे
वसंति च जगन्नाथ वर्तंते तेऽतिदुःखिताः 5.1.30.
न तेषां विद्यते किंचिद्यत्प्रकाशं करोति च
न सहायो न जायेयं नालंबो न च देशिकाः
तत्राष्टाविंशतिः ख्याता घोरा नरककोटयः
सुखं तत्र कथं कृष्ण लभंते दुःखिता नराः
उवाच वचनं हृद्यं मनोरथफलप्रदम्
शृणुध्वं त्रिदशाः सर्वे यत्प्रवक्ष्यामि वो वचः
अवंत्यां वर्तते तीर्थं सद्यः पापहरं परम्
कार्तिकस्यासिते पक्षे चतुर्दश्यां समाहितः
संगृह्य वै तिलान्कृष्णान्पितृभक्तो जितेंद्रियः
अपसव्यं तथा कृत्वा मंत्रैः संतर्प येद्यमम् 5.1.30.