तत्र कण्टेश्वरो देवो भक्तानां सर्वदः सदा
ग्रहभूतपिशाचेभ्यो न भयं प्राप्नुयात्क्वचित्
अन्धासुरस्य रौद्रस्य पिबध्वं रुधिरं द्रुतम् 5.1.37.
अभयं शक्र मा भैस्त्वं यत्रोवाचेति शंकरः
वंदितं देवगंधर्वैः सिद्धविद्याधरोरगैः
अर्चये द्देवदेवेशमश्वमेधफलं लभेत्
सिंहयुक्तेन यानेन शिवलोकं स गच्छति
मातृभिर्युध्यमानाभिः क्षयमाशु जगाम सा
षट्तृप्तिं परमा जग्मुर्न तु तृप्ता ललाटजा
उत्तराभिमुखं शूलमंधकोऽकर्षयद्बली
महाविनायकः ख्यातस्तस्माल्लोकेऽभवन्मुने
मासेमासे चतुर्थ्यां यो गणेशं पूजयेद्द्विज
स्वेदबिंदुरथो तस्य ललाटादपतद्भुवि 5.1.37.
आवन्त्ये विषये जातो लोहितांगो धरासुतः
नामभिर्ब्रह्मणा स्तुत्वा ग्रहमध्येऽधिरोपितः
ब्रह्मणा स्थापितं लिंगं गणगंधर्वसेवितम्
दृष्ट्वांगारेश्वरं सोथ मुच्यते सर्वपातकैः
यावत्पूर्णाश्चतस्रः स्युस्तावत्कार्याः प्रयत्नतः
गुडपीठमयाः कार्या रक्तवस्त्रसमन्विताः
तिलतण्डुलसंपूर्णमेकं तत्रैव कारयेत्
उत्तरीभिश्चतुर्थं च पञ्चमं मूलकैस्तथा
कुजाय लोहितांगाय ग्रहमघ्यस्थिताय च
शिवललाटसंभूत धरणीगर्भसंभव 5.1.37.
ज्वलितांगारवर्णाभ स्निग्धविद्रुमभा सुर
आवन्त्यमण्डले जातो धरण्यां च शिवेन वै
एवं संपूजितो भौमश्चतुर्थ्यां मुनिसत्तम
मृतः स्वर्गमवाप्नोति यावदिन्द्राश्चतुर्दश
चामुंडायास्ततो रक्तमभूदास्यं च भासुरम्
कृष्णं कृतांतकल्पांतं करालदशनाधरम्
घोरघर्घरनिर्घोषस्फीतफेत्कारविस्वरम्