तदागतं महादैत्यं समीपे भयविह्वलम्
छित्त्वा बाहुसहस्रं वै दैत्यराजस्य चाहवे
स्थितो यत्राचलो व्यास तत्रागतो महेश्वरः
अन्योन्यं च समासाद्य कृत्वा युद्धं तु दारुणम्
वैष्णवास्त्रं तदा कृष्णः संदधे हरजिघांसया
संदधे वै तदा शंभुः कृष्णप्राणहरोत्सुकः
मोहनास्त्रं पुनः कृष्णः शिवोपरि मुमोच ह 5.1.49.
जृंभमाणः स्थितः संख्ये किंचित्कालं मुहुर्मुहुः
तदा क्रोधाभिभूतेन कृतो माहेश्वरो ज्वरः
त्रिनेत्रस्त्रिशिरा ह्रस्वस्त्रिपादो बर्कराकृतिः
कृष्णसेनां समासाद्य महादेवेन प्रेरितः
पराङ्मुख्यपरा भग्ना ज्वराभिघातपीडिता
तथाभूतां समालोक्य जृंभमाणा रुजार्दिताम्
ससर्ज वैष्णवं तापं कृष्णः परमकोपनः
अन्योन्यमभवद्युद्धं घोरं घोरतरं महत्
सर्वलोकेषु गत्वा वै न शांतिं प्रतिजग्मिवान्
निमग्नोऽथ वै शिप्रायां ततः शांतिं परां ययौ 5.1.49.
वैष्णवो ऽपि समासाद्य तस्यां मज्जनमाचरत्
तस्मात्सर्वेषु कालेषु ज्वरघ्नी साऽभवत्क्षणात्
निमज्जंति च शिप्रायां व्यासोषसि समाहिताः
सत्यमुक्तं तदा व्यास ब्रह्महरिहरेण च
ये शृण्वंति कथां दिव्यां नराश्चैकाग्रमानसाः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवंत्यखंडेऽवन्तीक्षेत्रमाहात्म्ये शिप्राया माहात्म्ये ज्वरानुग्रहोनामैकोन पंचाशत्तमोऽध्यायः
तथाहं संप्रवक्ष्यामि समासेन परंतप
पुरा कृतयुगे व्यास दमनोनाम वै नृपः
उत्पथी सर्वधर्माणां गोब्राह्मणविनिंदकः
प्रजासर्वस्वहर्ता च परदाराभिमर्शकः
गोग्रहः पुरभेदी च बंदी बंदिजनप्रियः
साधुसंगपरित्यागी दुष्टो दुष्टजनप्रियः
धर्मनिंदाकरो नित्यमधर्मे रमते मतिः