दृष्ट्वा च तनयं पंगुमित्युवाच विभावसुः
इति पृष्टो यदा तेन सवित्रा लोकभास्वता
प्रातराशाय मे नाथ याचितं मातुरंतिकात्
पादौ मे गलितौ सद्यो मातुः शापपराभवौ
विचित्रमिदमाख्यातं मातुः शापस्य कारणम्
नेयं सा रुचिरापांगी त्वाष्ट्री लोकस्य पावनी 5.1.56.
गता वै सा पितुर्गेहे वारिताहं तयाऽनघ
सवित्रे नैव वक्तव्यं छाये किंचित्कथंचन
तच्छ्रुत्वा भगवांस्त्वष्टुः समीपं रोषमास्थितः
तं दृष्ट्वा सहसोत्थाय त्वष्टा लोकपितामहः
नत्वा पादौ परिक्रम्य बहुमानपुरः सरम्
आगता ते गृहं तात मम मार्गानुमोदिनी
इत्युक्ते वचने त्वष्ट्रा रविर्दुश्चिंतमानसः
किं करोमि क्व गच्छामि क्व च प्रियतरा मम
तव तेजः परिभ्रष्टा भग्ना क्वापि गताबला
तदा ते रोचते सम्यग्यथा स्याद्वै तथा कुरु।।5.1.56.
इति सूर्यवचः श्रुत्वा शाणं कृत्वा सुदर्शनम्
तस्य घृष्टितमात्रेण त्वष्टा चक्रे विवस्वतः
तदा त्वष्टाऽब्रवीद्वाक्यं मधुरं सूर्यसंनिधौ
गृह्यतां भोः सुरश्रेष्ठ शीघ्रं गच्छतु शाड्वले
उभयोः संगमो यत्र तत्र मुक्तिर्न संशयः
इति तस्य वचः श्रुत्वा सविता सर्वतापनः
क्षातासंगमसंयुक्ता यत्र शिप्रा पयस्विनी
तत्रागत्य प्रियां भार्यां वडवारूपधारिणीम्
नासिकाघ्राणमात्रेण यत्र जातौ सुतावुभौ
छाया च सुषुवे तत्र मिथुनं द्विजसत्तम 5.1.56.
शनि योगे यदामा वै जायते सर्वकामदा
तस्य हस्तगता लक्ष्मीर्जायते सर्वदा भुवि
स्थावरेशं समभ्यर्च्य तस्य पापक्षयो भवेत्
पिंगश्छायासुतो बभ्रुः स्थावरः पिप्पलायनः