कलि द्वापरयोः संधौ तस्य दोषाच्च भामिनि
न ववर्ष सहस्राक्षः प्रतिलोमोऽभवत्प्रभुः
नद्यः संक्षिप्ततोयौघाः क्वचिदंतर्हितास्तदा
उच्छिन्नकृषि गोरक्षा निवृत्तविपणास्तथा
शून्यभूयिष्ठनगरा दग्धग्रामनिवेशिनः
आश्रमान्संपरित्यज्य पर्यधावन्नितस्ततः 5.2.23.
सूष्टिरुन्मूलिता सर्वा जंगमा स्थावराखिला
शरण्यं शरणं जग्मुर्देवदेवं जनार्दनम्
ब्रह्मलोकादिभिर्लोकैरनौपम्यगुणं शुभम्
स्वेच्छाकल्पितवि न्यासप्रासादशयनासनम्
जरामृत्युभयोपेतसर्वव्याधिविवर्जितम् साष्टांगां प्रणतिं कृत्वा ते देवाः स्तुतिमब्रुवन्
भवान्ब्रह्मा च रुद्रश्च महेंद्रो देवसत्तमः
एवं च सत्यं परमं तपश्च परमं तथा १७ [ एवं स्तुतस्तदा तैस्तु देवदेवो वरानने
प्राह देवांस्ततः कृष्णः किं करोम्यद्य वः सुराः
उपायः कथ्यतां देव तुष्टिः धुष्टिर्यथा भवेत् 5.2.23.
गच्छध्वं त्रिदशाः सर्वे महाकालवने शुभे
मेघा वृष्टिकराः सर्वे तस्मिँल्लिंगे च संति वै
प्रतीहारेश्वराद्देवादीशाने विद्यते सुराः
महाकालवने प्राप्ता यत्रास्ते लिंगमुत्तमम्
नमस्तेऽस्तु महेशाय नमोऽनंताय मालिने
नमो योगाय वेदाय नमः पिंगजटाय ते
नमः शुभ्राट्टहासाय नमस्तेऽस्तु शिखंडिने
नमोंऽतकाय भव्याय त्र्यंबकायास्तु ते नमः
नमो योगशरीराय नमस्ते सर्व सर्वदा
सुवृष्ट्या देवदेवेश पाहि नः शरणागतान् 5.2.23.
लिंगमध्यात्समुत्तस्थुर्वादयंतो नभस्तलम्
जातं विनिष्प्रभं सर्वं न प्राज्ञायत किंचन
ते तस्य देवदेवस्य माहात्म्येन प्रतोषिताः
ततस्तमः संहरतो विनेशुश्च बलाहका
शुद्धप्रभाणि ज्योतींषि सोमं चक्रुः प्रदक्षिणाम्