शुक्रस्य मतमास्ताय सो ऽश्वमेधाय दीक्षितः
अरोढुमिच्छति वशी विजेतुं त्रिदशानपि
उवायं मखविध्वंसे येन स्याम सुनिर्वृताः
विसृज्य देवताः सर्वा ज्ञात्वाजेयं महासुरम्
ततः कृत्वा स भगवान् वामनं रूपमीश्वरः
क्षणान्मज्जंस्तथोन्मज्जन्मुक्तकेशो यदृच्छया
ततः कर्म परित्यज्य यज्ञियं ब्राह्मणोत्तमाः
सदस्या यजमानश्च ऋत्विजो ऽथ महौजसः
किमर्थं पतितो ऽसीह केनाक्षिप्तो ऽसि नो वद
प्राह धुन्धुपुरोगांस्ताञ् छ्रूयतामत्र कारणम्
सर्वसास्त्रार्थवित् प्राज्ञो गोत्रतश् चापि वारुणः
तत्र ज्येष्ठो मम भ्राता कनीयानपरस्त्वहम्
मम नाम पिता चक्रे गतिभासेति कौतुकात्
त्रिविष्टपगुणैर्युक्तश्चारुरूपो महासुर
तस्योर्ध्वदेहिकं कृत्वा गृहमावां समागतौ
तेनोक्तो नैव भवतो विद्यते भागा इत्यहम्
उन्मत्तानां तथान्धानां धनभागो न विद्यते
एतावद् दीयते तेभ्यो नार्थभागहरा हि ते
धनार्थभागमर्हामि नाहं न्यायेन केन वै
समुत्क्षिप्याक्षिपन्नद्यामस्यां मामिति कारणात्
कालः संवत्सराख्यस्तु युष्माभिरिह चोद्धृतः
को ऽयं च शक्रप्रतिमो दीक्षितो यो महाभुजः
महर्द्धिसंयुता यूयं सानुकम्पाश्च मे भृशम्
प्रोचुर्वं द्विजा ब्रह्मन् गोत्रश्चापि भार्गवाः
दाता भोक्ता विभक्ता च दीक्षितो यज्ञकर्मणि
प्रोचुर्दैत्यपतिं सर्वे वामनार्थकरं वचः
श्रीमदावसथं दास्यो रत्नानि विविधानि च
प्राह द्विजेन्द्र ते दद्मि यावदिच्छसि वै धनम्
प्रयच्छाम्यद्य भवतो व्रियतामीप्सितं विभो
प्राहासुरपतिं धुन्धुं स्वार्थसिद्धिकरं वचः