तेषां रूपं प्रवक्ष्यामि स्वभावेन व्यवस्थितम्। वृत्ताक्षाः पिङ्गलाश्चैव महाकाया महोदराः ।। ९.
अष्टदंष्ट्रा शङ्कुकर्णा ऊर्द्ध्वरोमाण एव च। आकर्णदारितास्याश्च मुञ्जधूमोर्द्ध्वमूर्द्धजाः ।। ९.
स्थूलशीर्षाः सिताभाश्च ह्रस्वकाश्च प्रवाहुकाः। ताम्रास्या लम्बजिह्वौष्ठा लम्बभूस्थूलनासिकाः ।। ९.
नीलाङ्गा लोहितग्रीवा गम्भीराक्षा विबीषणाः । महाघोरस्वराश्चैव विकटा बद्धपिण्डिकाः ।। ९.
स्थूलाश्च तुङ्गनासाश्च शिलासंहनना दृढाः। दारुणाभिजनाः क्रूराः प्रायशः क्लिष्टकर्मिणः ।। ९.
सकुण्डलाङ्गदापीडा मुकुटोष्णीषधारिणः। विचित्र वस्त्राभरणाश्चित्रस्रगनुलेपनाः ।। ९.
अन्नादाः पिशितादाश्च पुरुषादाश्च ते स्मृताः। इत्येतद्रूपसाधर्म्यं राक्षसानां बुधैः स्मृतम्। न समस्तबलं बुद्धं यतो मायाकृतं हि तत् ।। ९.
पुलहस्य मृगाः पुत्राः सर्वे व्यालाश्च दंष्ट्रिणः । भूताः पिशाचाः सर्पाश्च भ्रमरा हस्तिनस्तथा ।। ९.
वानराः किन्नराश्चैव यमकिम्पुरुषास्तथा। येऽन्ये चैव परिक्रान्ता मायाक्रोधवशानुगाः ।। ९.
अनपत्यः क्रतुस्तस्मिन् स्मृतो वैवस्वतेऽन्तरे। न तस्य पुत्रः पौत्रो वा तेजः संक्षिप्य वा स्थितः ।। ९.
अत्रेर्वंशं प्रवक्ष्यामि तृतीयस्य प्रजापतेः। तस्य पत्न्यश्च सुन्दर्यो दशैवासन्पतिव्रताः ।। ९.
भद्राश्वस्य घृताच्यां वै दशाप्सरसि सूनवः। भद्रा शूद्रा च मद्रा च शलदा मलदा तथा ।। ९.
वेला खला च सप्तैता या च गोचपला स्मृता । तथा मानरसा चैव रत्नकृटा च ता दश ।। ९.
आत्रेयवंशकृत्तासां भर्त्ता नाम्ना प्रभाकरः। भद्रायां जनयामास सोमं पुत्रं यशस्विनम् ।। ९.
स्वर्भानुना हते सूर्ये पतमानो दिवो महीम्। तमोऽभिभूते लोकेऽस्मिन् प्रभा येन प्रवर्त्तिता ।। ९.
स्वस्ति तेऽस्त्विति चोक्तः स पतन्निह दिवाकरः। ब्रह्मर्षेर्वचनात्तस्य न पपात दिवो महीम् ।। ९.
अत्रिश्रेष्ठानि गोत्राणि यश्चकार महातपाः । यज्ञेष्वत्रिघनश्चैव सुरैर्यश्च प्रवर्त्तितः ।। ९.
स तास्वजनयत् पुत्रानात्मतुल्याननामकान्। दश तास्वेव महता तपसा भावितप्रभा ।। ९.
स्वस्त्यात्रेया इति ख्याता ऋषयो वेदपारगाः । तेषां विख्यातयशसौ ब्रह्मिष्ठौ सुमहौजसौ ।। ९.
दत्तात्रेयस्तस्य ज्येष्ठो दुर्वासास्तस्य चानुजः । यवीयसी सुता तस्या मबला ब्रह्मवादिनी। अत्राप्युदाहरन्तीमं श्लोकं पौराणिकाः पुरा ।। ९.
अत्रेः पुत्रं महात्मानं शान्तात्मानमकल्मषम्। दत्तात्रेयं तनुं विष्णोः पुराणज्ञाः प्रचक्षते ।। ९.
तस्य गोत्रान्वये जाताश्चत्वारः प्रथिता भुवि। श्यामाश्च मुद्गलाश्चैव बलारकगविष्ठिराः। एते नृणान्तु चत्वारः स्मृताः पक्षा महौजसाम् ।। ९.
कश्यपान्नारदश्चैव पर्वतोऽरुन्धती तथा। जज्ञिरे च त्वरुन्धत्यास्तान्निबोधत सत्तमाः ।। ९.
नारदस्तु वसिष्ठायारुन्धतीं प्रत्यपादयत्। ऊर्द्ध्वरेता महातेजा वृक्षशापात्तु नारदः ।। ९.
पुरा देवासुरे तस्मिन्संग्राम तारकामये। अनावृष्ट्या हते लोके व्यग्रे शक्रे सुरैः सह। वसिष्ठस्तपसा धीमान्धारयामास वै प्रजाः ।। ९.
अत्रौषधं मूलफलमोषधीश्च प्रवर्त्तयन् । तास्तेन जीवयामास कारुण्यादोषधेन तु ।। ९.
अरुन्धत्यां वसिष्ठस्तु शक्तिमुत्पादयद्द्विजाः। सागरञ्जनयच्छक्तेरदृश्यन्ती पराशरम् ।। ९.
काली पराशराज्जज्ञे कृष्णद्वैपायनं प्रभुम्। द्वैपायनादरण्यां वै शुको जज्ञे गुणान्वितः ।। ९.
उत्पद्यन्ते च पीवर्यां षडिमे शुकसूनवः। भूरिश्रवाः प्रभुः शम्भुः कृष्णो गौरश्च पञ्चमः ।। ९.
कन्या कीर्तिमती चैव योगमाता दृढव्रता। जननी ब्रह्मदत्तस्य पत्नी सत्त्वगुहस्य च ।। ९.