पूजयेच्चार्घ्यपात्रेण वेश्मना भोजनेन च। ऊर्वोः सागरपर्यन्तां देवा योगेश्वराः सदा। नानारूपैश्चरन्त्येते प्रजा धर्मेण पालयन् ।। १०.
तस्माद्दद्याच्च वै दानं विप्रायातिथये नरः। प्रदानानि प्रवक्ष्यामि फलञ्चैषां तथैव च ।। १०.
अश्वमेधसहस्रेण राजसूयशतेन च। पुण्डरीकसहस्रेण योगिष्वावसथो वरम् ।। १०.
आद्य एष गणः प्रोक्तः पितॄणाममितौजसाम्। भावयन्सप्तकालान्वै स्थित एष गणस्तदा ।। १०.
अत ऊरद्ध्वं प्रवक्ष्यामि सर्वान् पितृगणान्पुनः । सन्ततिं संस्थितिञ्चैव भावनाञ्च यथाक्रमम् ।। १०.
सप्त मेधावतां श्रेष्ठाः स्वर्गे पितृगणाः स्मृताः। चत्वारो मूर्तिमन्तश्च त्रयस्तेषाममूर्त्तयः। तेषां लोकविसर्गन्तु कीर्त्तयिष्ये निबोधत ।। ११.
या वै दुहितरस्तेषां दोहित्राश्चैव ये स्मृताः। धर्ममूर्त्तिधरास्तेषां ये त्रयः परमा गणाः ।। ११.
नामानि लोकसर्गञ्च तेषां वक्ष्ये समासतः। लोका विरजसो नाम्ना यत्र तिष्ठन्ति भास्वराः ।। ११.
अमूर्त्तयः पितृगणाः पुत्रास्ते वै प्रजापतेः। विरजस्य द्विजाः श्रेष्ठा वैराजा इति विश्रुताः । एष वै प्रथमः कल्पो वैराजानां प्रकीर्त्तितः ।। ११.
तेषान्तु मानसी कन्या मेना नाम महागिरेः। पत्नी हिमवतः शुभ्र यस्यां मैनाक उच्यते ।। ११.
जातः सर्वैषधिधरः सर्वरत्नाकरात्मवान्। पर्वतः प्रवरः पुण्यः क्रौञ्चस्तस्यात्मजोऽभवत् ।। ११.
तिस्रः कन्यास्तु मेनायां जनयामास शैलराट्। अपर्णामेकपर्णाञ्च तृतीयामेकपाटलाम् ।। ११.
आश्रिते द्वे ह्यपर्णा तु अनिकेता तपोऽचरत्। न्यग्रोधमेकपर्णी तु पाटलामेकपाटला। शतं वर्षसहस्राणि दुश्चरं देवदानवैः ष।। ११.
आहारमेकपर्णेन एकपर्णी समाचरत्। पाटलेनैव चैकेन विदध्यादेकपाटला ।। ११.
पूर्णे पूर्णे सहस्रे द्वे आहारं वै प्रजक्रतुः । एका तत्र निराहारा तां माता प्रत्यभाषत ।। ११.
निषेधयन्ती ह्युमेति माता स्रेहेन दुःखिता। सा तथोक्ततया देवी मात्रा दुश्चरचारिणी ।। ११.
उमेति सा महाभागा त्रिषु लोकेषु विश्रुता । तथेति नाम्ना तेनासौ निरुक्ता कर्मणा शुभा ।। ११.
एतत्तु त्रिकुमारीकं जगत्स्यास्यति शाश्वतम्। एतासां तपसा दृप्तं यावद्भूमिद्धरिष्यति ।। ११.
तपःशरीरास्ताः सर्वास्तिस्रो योगबलान्विताः। देव्यस्ताः सुमहाभागाः सर्व्वाश्च स्थिरयौवनाः ।। ११.
सर्वाश्च ब्रह्मवादिन्यः सर्वा श्चैवोर्द्ध्वरेतसः। उमा तासां वरिष्ठा च श्रेष्ठा च वरवर्णिनी ।। ११.
महायोगबलोपेता महादेवमुपस्थिता। दन्तकाण्वोशना तस्याः पुत्रो वै भृगुनन्दनः ।। ११.
असितस्यैकपर्णी तु पत्नी साध्वी दृढव्रता। दत्ता हिमवता तस्मै योगाचार्याय धीमते। देवलं सुषुवे सा तु ब्रह्मिष्ठं मानसं सुतम् ।। ११.
या चैतासां कुमारीणां तृतीया त्वेकपाटला। पुत्रं शतशिलाकस्य जैगीषव्यमुपस्थिता ।। ११.
तस्यापि शङ्खलिखितौ स्मृतौ पुत्रावयोनिजौ। इत्येता वै महाभागाः कन्या हिमवतः शुभाः ।। ११.
रुद्राणी सा तु प्रवरा स्वगुणैरतिरिच्यते। अन्योन्यप्रीतिरनयोरुमाशङ्करयोर्यथा ।। ११.
श्लेषं संसक्तयोर्ज्ञात्वा शङ्कितः किल वृत्रहा। ताभ्यां मैथुनसक्ताभ्यामपत्योद्भवभीरुणा। तयोः सकाशमिन्द्रेण प्रेषितो हव्यवाहनः ।। ११.
अनयो रतिविघ्नञ्च त्वमाचर हुताशन। सर्वत्र गत एव त्वं न दोषो विद्यते तदा ।। ११.
इत्येवमुक्ते तु तथा वह्निना च तथा कृतम्। उमादेहं समुत्सृज्य शुक्रं भूमौ विसर्जितम् ।। ११.
ततो रुषितया देव्या शप्तोऽग्निः शांशपायन। इदं चोक्तवती वह्निं रोषगद्घदया गिरा ।। ११.
यस्मान्मय्यवितृप्तायां रतिविघ्नं हुताशन। कृतवानस्यकर्त्तव्यं तस्मात्त्वमसि दुर्मते ।। ११.