प्रतिपेदे जरां राजा ययातिर्नहुषात्मजः। यौवनं प्रतिपेदे च पूरुः स्वं पुनरात्मनः ।। ३१.
अभिषेक्तुकामञ्च नृपं पूरुं पुत्रं कनीयसम्। ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् ।। ३१.
कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो। श्रेष्ठं यदुमतिक्रम्य पूरो राज्यं प्रदास्यसि ।। ३१.
यदुर्ज्येष्ठस्तव सुतो जातस्तमनु तुर्वसुः। शर्मिष्ठायाः सुतो द्रुह्युस्तनोऽनुः पूरुरेव च ।। ३१.
कथं ज्येष्ठानतिक्रम्य कनीयान् राज्यमर्हति । अतः सम्बोधयामि त्वां धर्म्मं समनुपालय ।। ३१.
ययातिरुवाच।। ब्राह्मणप्रमुखा वर्णाः सर्वे श्रृण्वन्तु मे वचः। ज्येष्टं प्रति यथा रार्ष्ट्रं न देयं मे कथञ्चन ।। ३१.
माता पित्रोर्वचनकृत्स हि पुत्रः प्रशस्यते । मम ज्येष्ठेन यदुना नियोगो नानुपालितः ।। ३१.
प्रतिकूलं पितुर्यश्च न स पुत्रः सतां मतः। स पुत्रः पुत्रवद् यश्च वर्त्तते पितृमातृषु ।। ३१.
यदुनाहमवज्ञातस्तथा तुर्वसुनापि च। द्रुह्युणा चानुना चैवमप्यवज्ञा कृता भृशम् ।। ३१.
पूरुणा तु कृतं वाक्यं मानितश्च विशेषतः। कनीयान् मम दायादो जरा येन धृता मम। सर्वकामः सर्वकृतः पूरुणा पुत्रकारिणा ।। ३१.
शुक्रेण च वरो दत्तः काव्ये नोशनसा स्वयम्। पुत्रो यस्त्वानुवर्त्तेत स राजा ते महामते ।। ३१.
भवतोऽनुमतोप्येवं पूरु राष्ट्रेऽभिषिच्यताम् । यःपुत्रो गुणसम्पन्नो मातापित्रोर्हितः सदा। सर्वमर्हति कल्याणं कनीयानपि स प्रभुः ।। ३१.
अर्हः पूरुरिदं राष्ट्रं यः प्रियः प्रियकृत्तव। वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम् ।। ३१.
पौरजानपदैस्तुष्टैरित्युक्तो नाहुषस्तदा। अभिषिच्य ततः पूरुं स्वराष्ट्रे सुतमात्मनः ।। ३१.
दिशि दक्षिणपूर्वस्यां तुर्वसुं तु न्यवेशयत्। दक्षिणापरतो राजा यदुं श्रेष्ठं न्यवेशयत् ।। ३१.
प्रतीच्यामुत्तरस्याञ्च द्रुह्युञ्चानुञ्च तावुभौ। सप्तद्वीपां ययातिस्तु जित्त्वा पृथ्वीं ससागराम्। व्यभजत् पञ्चधा राजा पुत्रेभ्यो नाहुषस्तदा ।। ३१.
तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना। यथाप्रदेशं धर्मज्ञैर्धर्म्मेण प्रतिपाल्यते ।। ३१.
एवं विसृज्य पृथिवीं पुत्रेभ्यो नाहुषस्तदा। पुत्रसंक्रामितश्रीस्तु प्रीतिमानभवन्नृपः ।। ३१.
धनुर्न्यस्य पृषत्कांश्च राज्यञ्चैव सुतेषु तु। प्रीतिमानभवद्राजा भारमावेश्य बन्धुषु ।। ३१.
अत्र गाथा महाराज्ञा पुरा गीता ययातिना। योऽभिप्रेत्याहरन् कामान् कूर्मोङ्गानीव सर्वशः ।। ३१.
न जातु कामः कामानामुपभोगेन शाम्यति। हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते ।। ३१.
यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । नालमेकस्य तत्सर्वमिति पश्यन्न मुह्यति ।। ३१.
यदा तु कुरुते भावं सर्व्वभूतेषु पावकम्। कर्म्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ।। ३१.
यदा परान्न बिभेति यदा त्वस्मान्न बिभ्यति। यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा ।। ३१.
या दुस्त्यजा दुर्म्मतिभिर्या न जीर्यति जीर्य्यतः। दोषाप्राणान्तिको रागस्तां तृष्णान्त्यजतः सुखम् ।। ३१.
जीर्य्यन्ति जीर्यतः कोशा दन्ता जीर्यन्ति जर्यितः। जीविताशा धनाशा च जीर्य्यतोपि न जीर्यति ।। ३१.
यच्चाकामसुखं लोके यच्च दिव्यं महत् सुखम्। तृष्णास्य च सुखस्यैव कलां नार्हति षोडशीम् ।। ३१.
एवमुक्त्वा स राजर्षिः सदारः प्रस्थितो वनम्। भृगुतुङ्गे तपस्तप्त्वा तत्रैव च महायशाः। पालयित्वा व्रतशतं तत्रैव स्वर्गमाप्नुयात् ।। ३१.
तस्य वंशास्तु पञ्चैते पुण्या देवर्षिसत्कृताः। यैर्व्याप्ता पृथिवी कृत्स्ना सूर्यस्येव गभस्तिभिः ।। ३१.
धन्यः प्रजावानायुष्मान् कीर्तिमांश्च भवेन्नरः। ययातेश्चरितं सर्वं पठञ्छृण्वन् द्विजोत्तमः ।। ३१.