अशक्तरुष्टो जानाति देवताः प्रविभागशः। इमौ चोदाहरन्त्यत्र श्लोकौ योगेश्वरं प्रति ।। ५.
आत्मनः प्रतिरूपाणि परेषाञ्च सहस्रशः। कुर्याद्योगबलम्प्राप्य तैश्च सर्वैः सहाचरेत् ।। ५.
प्राप्नुयाद्विषयाश्चैव तथैवोग्रतपश्चरन् । संहरेच्च पुनः सर्वान् सूर्यतेजो गुणानिव ।। ५.
एतच्छ्रुत्वा वचस्तस्य नैमिषेयास्तपस्विनः। पप्रच्छुऋषयः श्रेष्ठं वचनस्य यथाक्रमम् ।। ६.
सप्तस्विह कथं देवा जाता मन्वन्तरेष्विह। इन्द्रविष्णुप्रधानास्ते आदित्यास्तु महौजसः। एतत् प्रब्रूहि नः सर्वं विस्तराद्रोमहर्षण ।। ६.
एव मुक्तस्तदा सूतो विनयी ब्रह्मवादिभिः। उवाच वदतां श्रेष्ठो यथा पृष्टो महर्षिभिः ।। ६.
व्रह्मणो वै मुखात् सृष्टा यथा देवाः प्रजेप्सया। सर्व मन्त्रशरीरास्ते स्मृता मन्वतरेष्विह ।। ६.
दर्शश्च पौर्णमासश्च बृहद्यच्च रथन्तरम्। आकूतः प्रथमस्तेषां ततस्त्वाकूतिरेव च ।। ६.
वित्तिश्चैव सुवित्तिश्च आकूतिः कूतिरेव च। अधीष्टस्तु ततो ज्ञेयः अधीतिश्चैव तत्त्वतः। विज्ञातिश्चैव विज्ञातो मानवो ये च द्वादश ।। ६.
ज्ञेयो द्वादशपुत्रश्च यश्चाब्देन समाजयेत्। तं दृष्ट्वा चाब्रवीद्ब्रह्मा जया देवानसूयत ।। ६.
दारा ग्रिहोत्रसंयोगे मिथ्यामारभतेति च। एवमुक्त्वा तु तं व्रह्मा तत्रैवान्तरधीयत ।। ६.
ततस्ते नाभ्यनन्दन्त तद्वाक्यं परमेष्ठिनः। सत्यस्येह तु कर्माणि वाङ्मनः कर्मजानि तु ।। ६.
य एवाप्यवतिष्ठन्ते दोषं दृष्ट्वा तु कर्मसु। क्षयातिशययुक्तन्तु ते दृष्ट्वा कर्मणां फलम् ।। ६.
जुगुप्सन्तः प्रसूतिञ्च निस्तन्द्रा निर्ममाभवन्। अजस्रं कांक्षमाणास्ते विरक्ता दोषदर्शिनः ।। ६.
अर्थं धर्मञ्च कामञ्च हित्वा ते वै व्यवस्थिताः। पौरुषं ज्ञानमास्थाय तेजः संक्षिप्य चास्थिताः ।। ६.
तेषाञ्च तमभिप्रायं ज्ञात्वा ब्रह्मा चुकोप ह। तानब्रवीत्तदा ब्रह्मा निरुत्साहात् सुरानथ ।। ६.
प्रजार्थमिह यूयं वै प्रजास्रष्टाऽस्मि नान्यथा। प्रसूयध्वं जयघ्वञ्चेत्युक्तवानस्मि यत् पुरा ।। ६.
यस्माद्वाक्यमनादृत्य मम वैराग्यमास्थिताः। जुगुप्समानाः स्वं जन्म सन्ततिं नाभि नन्दथ ।। ६.
कर्मणाञ्च कृतो न्यासो ह्यमृतत्त्वाभिकांक्षया। तस्माद्यूयमनादृत्य सप्तकृत्वस्तु यास्यथ ।। ६.
ते शप्ता ब्रह्मणा देवा जयास्तं वै प्रसादयन्। क्षमास्माकं महादेव यदज्ञानात् कृतं विभो ।। ६.
प्रणिपत्य सानुनयं ब्रह्मा तानब्रवीत् पुनः। लोके मयाननुज्ञातः कः स्वातन्त्र्यमिहार्हसि ।। ६.
मया परिगतं सर्वं कथमच्छन्दतो मम। प्रतिपत्स्यन्ति भूतानि शुभं वा यदि वाऽशुभम् ।। ६.
लोके यदस्ति किञ्चिद्वै सत्त्वासत्त्वव्यवस्थितम्। बुद्ध्यात्मना मया व्याप्तं को मां लोकेऽतिसन्धयेत् ।। ६.
भूतानां तर्कितं यच्च यच्चाप्येषां विधारितम्। तथा विचारितं यच्च तत्सर्वं विदितं मम ।। ६.
मया स्थितमिदं सर्वं जगत् स्थावरजङ्गमम्। आशामयेन तत्त्वेन कथं छेत्तुमिहोत्सहे ।। ६.
यस्माच्चाहं विवृत्तो वै सर्गार्थमिह नान्यथा। इह कर्माण्यनारभ्य को मे छन्दाद्विमोक्ष्यते ।। ६.
परिभाष्य ततो देवान् जयान् वै नष्टचेतसः। अब्रवीत्स पुनस्तान् वै धृतान् दण्डे प्रजापतिः ।। ६.
यस्मान्ममाभिसन्धाय सन्न्यासो वः कृतः पुरा। यस्मात्स विफलोऽयन्नो ह्यपारस्त्वेष यः कृतः। भविताऽतः सुखोदर्को देवा भावेषु जायताम् ।। ६.
आत्मच्छन्देन वो जन्म भविष्यति सुरोत्तमाः। मन्वन्तरेषु संमूढाः षट्सु सर्वे गमिष्यथ ।। ६.
वैवस्वतान्तेषु सुरास्तथा स्वायम्भुवादिषु। तान् ज्ञात्वा ब्रह्मणा तत्र श्लोको गीतः पुरातनः ।। ६.