भद्रकाली च विज्ञेया देव्याः क्रोधाद्विनिर्गता। प्रेषिता देवदेवेन यज्ञान्तिकमिहागता ।। ३०.
शारणं गच्छ राजेन्द्र देवं ते त्वमुमापतिम्। वरं क्रोधोऽपि रुद्रस्य वरदानं न देवतः ।। ३०.
वीरभद्रवचः श्रुत्वा दक्षो धर्म्मभृतां वरः। तोषयामास देवेशं शूलपाणिं महेश्वरम् ।। ३०.
प्रदुष्टे यज्ञवादे तु विद्रुतेषु द्विजातिषु। तारामृगमये दीप्ते रौद्रे भीममहानले ।। ३०.
शूलनिर्भिन्नवदनैः कूजद्भिः परिचारकैः। निखातोत्पाटितैर्यूपैरपविद्धै र्य्यतस्ततः ।। ३०.
उत्पत्द्भिः पतद्भिश्च गृध्रैरामिषगृध्रुभिः। पक्षपातविनिर्धूतैः शिवाशतनिनादितैः ।। ३०.
प्राणापानौ सन्निरुध्य ततः स्थानेन यत्नतः। विचार्य सर्वतो दृष्टिं बहुदृष्टिरमित्रजित् ।। ३०.
सहसा देवदेवेशः अग्निकुण्डादुपागतः। चन्द्रसूर्य्यसहस्रस्य तेजः संवर्त्तकोपमम् ।। ३०.
प्रहस्य चैनं भगवानिदं वचनमब्रवीत्। नष्टस्ते ज्ञानतो दक्ष प्रीतिस्ते मयि सांप्रतम् ।। ३०.
स्मितं कृत्वाब्रवीद्वाक्यं ब्रूहि किं करवाणि ते। श्रावितञ्च समाख्याय देवानां गुरुभिः सह ।। ३०.
तमुवाचाञ्जलिं कृत्वा दक्षो देवं प्रजापतिः। भीतशङ्कितवित्रस्तः सबाष्पवदनेक्षणः ।। ३०.
यदि प्रसन्नो भगवान् यदि वाहं तव प्रियः। यदि वाहमनुग्राह्यो यदि देयो वरो मम ।। ३०.
यज्जग्धं भक्षितं पीतमशितं यच्च नाशितम्। चूर्णीकृतञ्जापविद्धं यज्ञसम्भारमीदृशम् ।। ३०.
दीर्घकालेन महता प्रयत्नेन च सञ्चितम्। तन्न मिथ्या भवेन्मह्यं वरमेतं वृणोम्यहम् ।। ३०.
तथास्त्वित्याह भगवान् भगनेत्रहयो हरः। धर्माध्यक्षं महादेवं त्र्यक्षन्तं वै प्रजापतिः ।। ३०.
जानुभ्यामवनिं गत्वा दक्षो लब्ध्वा भवाद्वरम्। नाम्नामष्टसहस्रेण स्तुतवान् वृषभध्वजम् ।। ३०.
नमस्ते देवदेवेश देवारिबलसूदन। देवेन्द्र ह्यमरश्रेष्ठ देवदानवपूजित ।। ३०.
सहस्राक्ष विरूपाक्ष त्र्यक्ष यक्षाधिपप्रिय। सर्वतः पाणिपादस्त्वं सर्वतोऽक्षिशिरोमुखः। सर्वतः श्रुतिमान् लोके सर्वानावृत्य तिष्ठसि ।। ३०.
शङ्कुकर्ण महाकर्ण कुम्भकर्णार्णवालय। गजेन्द्रकर्ण गोकर्ण पाणिकर्ण नमोऽस्तु ते ।। ३०.
शतोदर शतावर्त्त शतजिह्व शतानन। गायन्ति त्वां गायत्रिणो ह्यर्च्चयन्ति तथार्च्चिनः ।। ३०.
देवदानवगोप्ता च ब्रह्मा च त्वं शतक्रतुः। मूर्त्तीशस्त्वं महामूर्ते समुद्राम्बु धराय च ।। ३०.
सर्वा ह्यस्मिन् देवतास्ते गावो गोष्ठ इवासते। शरीरन्ते प्रपश्यामि सोममग्निं जलेश्वरम् ।। ३०.
आदित्यमथ विष्णुञ्च ब्रह्माणं सबृहस्पतिम्। क्रिया कार्य्यं कारणञ्च कर्त्ता करणमेव च ।। ३०.
असच्च सदसच्चैव तथैव प्रभवाव्ययम्। नमो भवाय शर्वाय रुद्राय वरदाय च ।। ३०.
पशूनां पतये चैव नमस्त्वन्धकघातिने। त्रिजटाय त्रिशीर्षाय त्रिशूलवरधारिणे ।। ३०.
त्र्यम्बकाय त्रिनेत्राय त्रिपुरघ्नाय वै नमः। नमश्चण्डाय मुण्डाय प्रचण्डाय धराय च ।। ३०.
दण्डि(?) मासक्तकर्णाय दण्डिमुण्डाय वै नमः। नमोऽर्द्धदण्डकेशाय निष्काय विकृताय च ।। ३०.
विलोहिताय धूम्राय नालग्रीवाय ते नमः। नमस्त्वप्रतिरूपाय शिवाय च नमोऽस्तु ते ।। ३०.
सूर्य्याय सूर्य्यपतये सूर्य्यध्वजपताकिने। नमः प्रमथनाथाय वृषस्कन्धाय धन्विने ।। ३०.
नमो हिरण्यगर्भाय हिरण्यकवचाय च। हिरण्यकृतचूडाय हिरण्यपतये नमः ।। ३०.