मैत्रेय उवाच। ज्ञातमेतन्मया त्वत्तो यथा सर्वमिदं जगत् । विष्णुर्विष्णौ विष्णुतश्च न परं विद्यते ततः
एतत्तु श्रोतुमिच्छामि व्यस्ता वेदा महात्मना । वेदव्यासस्वरूपेण यथा तेन युगेयुगे
यस्मिन्यस्मिन्युगे व्यासो यो य आसीन्महामुने । तंतमाचक्ष्व भगवञ्छाखाभेदांश्च मे वद
श्रीपराशर उवाच । वेदद्रु मस्य मैत्रेय शाखाभेदास्सहस्रशः । न शक्तो विस्तराद्वक्तुं संक्षेपेण शृणुष्व तम्
द्वापरेद्वापरे विष्णुर्व्यासरूपी महामुने । वेदमेकं सुबहुधा कुरुते जगतो हितः
वीर्यं तेजो बलं चाल्पं मनुष्याणामवेक्ष्य च । हिताय सर्वभूतानां वेदभेदान्करोति सः
ययासौ कुरुते तन्वा वेदमेकं पृथक्प्रभुः । वेदव्यासाभिधाना तु सा च मूर्तिर्मधुद्विषः
यस्मिन्मन्वंतरे व्यासा येये स्युस्तान्निबोध मे । यथा च भेदश्शाखानां व्यासेन क्रियते मुने
अष्टविंशतिकृत्वो वै वेदो व्यस्तो सहर्षिभिः । वैवस्वतेंतरे तस्मिन्द्वापरेषु पुनःपुनः
वेदव्यासा व्यतीता ये ह्यष्टाविंशति सत्तम । चतुर्धा यैः कृतो वेदो द्वापरेषु पुनःपुनः
द्वापरे प्रथमे व्यस्तस्स्वयं वेदः स्वयंभुवा । द्वितीये द्वापरे चैव वेदव्यासः प्रजापतिः
तृतीये चोशना व्यासश्चतुर्थे च बृहस्पतिः । सविता पंचमे व्यासः षष्ठे मृत्युस्समृतः प्रभुः
सप्तमे च तथैवेंद्रो वसिष्ठश्चाष्टमे स्मृतः । सारस्वतश्च नवमे त्रिधामा दशमे स्मृतः
एकादशो तु त्रिशिखो भरद्वाजस्ततः परः । त्रयोदशो चांतरिक्षो वर्णी चापि चतुर्दशो
त्रय्यारुणः पंचदशो षोडशो तु धनंजयः । क्रतुंजयः सप्तदशो तदूर्ध्वं च जयस्स्मृतः
ततो व्यासो भरद्वाजो भरद्वाजाच्च गौतमः । गौतमादुत्तरो व्यासो हर्य्यात्मा योभिधीयते
अथ हर्य्यात्मनॐते च स्मृतो वाजश्रवा मुनिः । सोमशुष्कायणस्तस्मात्तृणबिंदुरिति स्मृतः
ऋक्षोभूद्भार्गवस्तस्माद्वाल्मीकिर्योभिधीयते । तस्मादस्मत्पिता शक्तिर्व्यासस्तस्मादहं मुने
जातुकर्णोभवन्मत्तः कृष्णद्वैपायनस्ततः । अष्टाविंशतिरित्येते वेदव्यासाः पुरातनाः
एको वेदश्चतुर्द्धा तु तैः कृतो द्वापरादिषु
भविष्ये द्वापरे चापि द्रौ णिर्व्यासो भविष्यति । व्यतीते मम पुत्रेस्मिन् कृष्णद्वैपायने मुने
ध्रुवमेकाक्षरं ब्रह्म ओमित्येव व्यवस्थितम् । बृहत्वाद्बृंहणत्वाच्च तद्ब्रह्येत्यभिधीयते
प्रणवावस्थितं नित्यं भूर्भुवस्स्वरितीर्य्यते । ऋग्यजुस्सामाथर्वाणो यत्तस्मै ब्रह्मणे नमः
जगतः प्रलयोत्पत्त्योर्यत्तत्कारणसंज्ञितम् । महतः परमं गुह्यं तस्मै सुब्रह्मणे नमः
अगाधापारमक्षय्यं जगत्संमोहनालयम् । स्वप्रकाशप्रवृत्तिभ्यां पुरुषार्थप्रयोजनम्
संख्यज्ञानवतां निष्ठा गतिश्शमदमात्मनाम् । यत्तदव्यक्तममृतं प्रवृत्तिर्ब्रह्म शाश्वतम्
प्रधानमात्मयोनिश्च गुहासंस्थं च शब्द्यते । अविभागं तथा शुक्रमक्षयं बहुधात्मकम्
परमब्रह्मणे तस्मै नित्यमेव नमोनमः । यद्रू पं वासुदेवस्य परमात्मस्वरूपिणः
एतद्ब्रह्म त्रिधा भेदमभेदमपि स प्रभुः । सर्वभेदेष्वभेदोसौ भिद्यते भिन्नबुद्धिभिः
स ऋङ्मयस्साममयः सर्वात्मा स यजुर्मयः । ऋग्यजुस्सामसारात्मा स एवात्मा शरीरिणाम्