तद्रू पमास्थाय सृजत्य जोयः स्थितौ च योऽसौ पुरुषस्वरूपी । रुद्र स्वरूपेण च योत्ति विश्वं धत्ते तथानंतवपुस्समस्तम्
पाकाय योग्नित्वमुपैति लोकान्बिभर्त्ति पृथ्वीवपुख्ययात्मा । शक्रादिरूपी परिपाति विश्वमर्केंदुरूपश्च तमो हिनस्ति
करोति चेष्टाश्श्वसनस्वरूपी लोकस्य तृप्तिं च जलान्नरूपी । ददाति विश्वस्थितिसंस्थितस्तु सर्वावकाशं च नभस्स्वरूपी
यस्सृज्यते सर्गकृदात्मनैव यः पाल्यते पालयिता च देवः । विश्वात्मकस्संहृयतेंतकारी पृथक् त्रयस्यास्य च योव्ययात्मा
यस्मिञ्जगद्यो जगदेतदाद्यो यं चाश्रितोस्मिञ्जगति स्वयंभूः । स सर्वभूतप्रभवो धरित्र्! यां स्वांश्नो पुष्णुर्नृप तेऽवतीर्णः
कुशस्थली या तव भूप रम्या पुरी पुराभूदमरावतीव । सा द्वारका संप्रति तत्र चास्ते स केशवांशो बलदेवनामा
तस्मै त्वमेनां तनयां नरेंद्र प्रयच्छ मायामनुजाय जायाम् । श्लाघ्यो वेरोसौ तनया तवेयं स्त्रीरत्नभूता सदृशो हि योगः
श्रीपराशर उवाच । इतीरितोसौ कमलोद्भवेन भुवं समासाद्य पतिः प्रजानाम् । ददर्श ह्रस्वान् पुरुषान् विरूपानल्पौजसस्स्वल्पविवेकवीर्यान्
कुशस्थलीं तां च पुरीमुपेत्य दृष्ट्वान्यरूपां प्रददौ स कन्याम् । सीरायुधाय स्फटिकाचलाभवक्षस्थलायातुलधीर्नरेंद्र ः!
उच्चप्रमाणामिति तामवेक्ष्य स्वलांगलाग्रेण च तालकेतुः । विनम्रयामास ततश्च सापि बभूव सद्यो वनिता यथान्या
तां रेवतीं रैवतभूपकन्यां सीरायुधोऽसौ विधिनोपयेमे । दत्त्वाथ कन्यां स नृपो जगाम हेमालयं वै तपसे धृतात्मा
श्रीपराशर उवाच । यावच्च ब्रह्मलोकात्स ककुद्मी रैवतो नाभ्येति तावत्पुण्यजनसंज्ञा राक्षसास्तामस्य पुरीं कुशस्थलीं निजघ्नुः
तच्चास्य भ्रातृशतं पुण्यजनत्रासाद्दिशो भेजे
तदन्वयाश्च क्षत्रियास्सर्वदिक्ष्वभवन्
वृष्टस्यापि वार्ष्टकं क्षत्त्रमभवत्
नाभागस्यात्मजो नाभागसंत्रोभवत्
तस्याप्यंबरीषः
अंबरीषस्यापि विरूपोभवत्
विरूपात्पृषदश्वो जज्ञे
ततश्च रथीतरः
अत्रायं श्लोकः । एते क्षत्रप्रसूता वै पुनश्चांगिरसाः स्मृताः । रथीतराणां प्रवराः क्षत्त्रोपेता द्विजातयः इति
क्षुतवतश्च मनोरिक्ष्वाकुः पुत्रो जज्ञे घ्राणतः
तस्य पुत्रशतप्रधाना विकुक्षिनिमिदंडाख्यास्त्रयः पुत्रा बभूवुः
शकुनिप्रमुखाः पंचाशत्पुत्राः उत्तरापथरक्षितारो बभूवुः
चत्वारिंशदष्टौ च दक्षिणापथभूपालाः
स चेक्ष्वाकुरष्टकायाश्श्राद्धमुत्पाद्य श्राद्धार्हं मांसमानयेति विकुक्षिमाज्ञापयामास
स तथेति गृहीताज्ञो विधृतशरासनो वनमभ्येत्यानेकशो मृगान् हत्वा श्रांतोतिक्षुत्परीतो विकुक्षिरेकं शशमभक्षयत् । श्षॐ च मांसमानीय पित्रे निवेदयामास
इक्ष्वाकुकुलाचार्यो वशिष्ठस्तत्प्रोक्षणाय चोदितः प्राह । अलमनेनामेध्येनामिषेण दुरात्मना तव पुत्रेणैतन्मांसमुपहतं यतोऽनेन शशो भक्षितः
ततश्चासौ विकुक्षिर्गुरुणैवमुक्तश्शशादसंज्ञामवाप पित्रा च परित्यक्तः
पितर्युपरते चासावखिलामेतां पृथ्वीं धर्मतश्शाशास