वेदवादांस्तथा वेदान्यज्ञ कर्मादिकं च यत् । तत्सर्वं निन्दयामासुर्यज्ञव्यासेधकारिणः ॥ १,६.
प्रवृत्तिमार्गव्युच्छित्तिकारिणो वेदनिन्दकाः । दुरात्मानो दुराचारा बभूवुः कुटिलाशयाः ॥ १,६.
संसिद्धायां तु वार्तायां प्रजाः सृष्ट्वा प्रजापतिः । सर्यादां स्थापयामास यथास्थानं यथागुणम् ॥ १,६.
वर्णा नामाश्रमाणां च धर्मधर्मभृतां वर । लोकांश्च सर्ववर्णानां सम्यग्धर्मानुपालिनाम् ॥ १,६.
प्रजापत्यं ब्रह्मणानां स्मृतं स्थानं क्रियावताम् । स्थानमैन्द्रं क्षत्रियाणां संग्रमेष्वनिवर्तताम् ॥ १,६.
वैश्यानां मारुतं स्थानं स्वधर्ममनुवर्तिनाम् । गान्धर्वं शूद्रजातीनां.परिचर्यानुवर्तिनाम् ॥ १,६.
अष्टाशीतिसहस्राणि मुनीनामूर्ध्वरेतसाम् । स्मृतं तेषां तु यत्स्थानं तदेव गुरुवासिनाम् ॥ १,६.
सप्तर्षिणां तु यत्स्थानं स्मृतं तद्वै वनौकसाम् । प्राजापत्यं गृहस्थानां न्यासिनां ब्रह्मसंज्ञितम् ॥ १,६.
योगिनाममृतं स्थानं स्वात्मसंतोषकारिणाम् ॥ १,६.
एकान्तिनः सदा ब्रह्मध्यायिनो योगिनश्च ये । तेषां तु परमं स्थानं यत्तत्पश्यन्ति सूरयः ॥ १,६.
गत्वागत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः । अद्यापि न निवर्तन्ते द्वादशाक्षरचिन्तकाः ॥ १,६.
तामिस्त्रमन्धतामिस्त्रं महारौरवरौरवौ । असिपत्रवनं घोरं कालसूत्रमवीचिकम् ॥ १,६.
विनिन्दकानां वेदस्य यज्ञव्याघातकारिणाम् । स्थानमेतत्समाख्यातं स्वधर्मत्यागिनश्च ये ॥ १,६.
श्रीपराशर उवाच ततोभिध्यायतस्तस्य जज्ञिरे मानसाः प्रजाः । तच्छरीरसमुत्पन्नैः कार्यैस्तैः करणैः सह । क्षेत्रज्ञाः समवर्तन्त गात्रेभ्यस्य स्यः धीमतः ॥ १,७.
ते सर्वे समावर्तन्त ये मया प्रागुदाहताः । देवाद्याः स्थावरान्ताश्च त्रैगुण्यविषये स्थिताः ॥ १,७.
एवंभूतानि सृष्टानि चराणि स्थावराणि च ॥ १,७.
यदास्य ताः प्रजाः सर्वा न व्यवर्धन्त धीमतः । अथान्यान्मानसान्पुत्रान्सदृशानात्मनोऽसृजत् ॥ १,७.
भृगुं पुलस्त्यं पुलहं क्रतुमङ्गिरसं तथा । मरीचिं दक्षमत्रिं च वसिष्ठं चैव मानसान् ॥ १,७.
नव ब्रह्माण इत्येते पुराणे निश्चयं गताः ॥ १,७.
ख्यातिं भूतिं च संभूतिं क्षमां प्रीतिं तथैव च । सन्नतिं च तथैवोर्जमनसूयां तथैव च ॥ १,७.
प्रसूतिं च ततः सृष्ट्वा ददौ तेषां महात्मनाम् । पत्न्यो भवध्व मित्युक्त्वा तेषामेव तु दत्तवान् ॥ १,७.
सनन्दनादयो ये च पूर्वसृष्टास्तु वेधसा । न ते लोकेष्वसज्जन्त निरपेक्षाः प्रजासु ते ॥ १,७.
सर्वे तेऽभ्या गतज्ञाना वीतरागा विमत्सराः । तेष्वेवं निरपेक्षेषु लोकसृष्टौ महात्मनाः ॥ १,७.
ब्रह्मणोभून्महान् क्रोधस्त्रैलोक्यदहनक्षमः । तस्य क्रोधात्स मुद्भूतज्वालामालातिदीपितम् । ब्रह्मणोभूत्तदा सर्वं त्रैलोक्यमखिलं मुने ॥ १,७.
भ्रकुटीकुटिलात्तस्य ललाटात्क्रोधदीपितात् । समुत्पन्न स्तदा रुद्रो मध्याह्नार्कसमप्रभः ॥ १,७.
अर्धनारीनरवपुः प्रचण्डोऽतिशरीरवान् । विभजात्मानमित्युक्त्वा तं ब्रह्मान्तर्दधे ततः ॥ १,७.
तथोक्तोसौ द्विधा स्त्रीत्वं पुरुषत्वं तथाकरोत् । विभेदपुरुषत्वं च दशधा चैकधा पुनः ॥ १,७.
सौम्यासौम्योस्तदाशान्ताशान्तैः स्त्रीत्वं च स प्रभुः । विभेद बहुधा देवाः स्वरूपैरसितैः सितैः ॥ १,७.
ततो ब्रह्मात्मसंभूतं पूर्वं स्वायंभुवं प्रभु । आत्मानमेव कृत वान्प्रजापाल्ये मनुं द्विज ॥ १,७.
शतरूपां च तां नारीं तपोनिर्धूतकल्पषाम् । स्वायंभुवो मनुर्देवः पत्नीत्वे जगृहे प्रभुः ॥ १,७.