अ उक्षा मिमेति प्रति यन्ति धेनवो देवस्य देवीरुप यन्ति निष्कृतम् च् अत्यक्रमीदर्जुनं वारमव्ययमत्कं न निक्तं परि सोमो अव्यत
अ अग्निं नरो दीधितिभिररण्योर्हस्तच्युतं जनयत प्रशस्तम् च् दूरेदृशं गृहपतिमथव्युम्
अ तमग्निमस्ते वसवो न्यृण्वन्त्सुप्रतिचक्षमवसे कुतश्चित् च् दक्षाय्यो यो दम आस नित्यः
अ प्रेद्धो अग्ने दीदिहि पुरो नो ऽजस्रया सूर्म्या यविष्ठ च् त्वां शश्वन्त उप यन्ति वाजाः
अ आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः च् पितरं च प्रयन्त्स्वः
अ अन्तश्चरति रोचनास्य प्राणादपानती च् व्यख्यन्महिषो दिवम्
अ त्रिंशद्धाम वि राजति वाक्पतङ्गाय धीयते च् प्रति वस्तोरह द्युभिः
षष्ठ द्वितीयो ऽर्धः अ उपप्रयन्तो अध्वरं मन्त्रं वोचेमाग्नये च् आरे अस्मे च शृण्वते
अ यः स्नीहितीषु पूर्व्यः संजग्मानासु कृष्टिषु च् अरक्षद्दाशुषे गयम्
अ स नो वेदो अमात्यमग्नी रक्षतु शन्तमः च् उतास्मान्पात्वंहसः
अ उत ब्रुवन्तु जन्तव उदग्निर्वृत्रहाजनि च् धनञ्जयो रणेरणे
अ अग्ने युङ्क्ष्वा हि ये तवाश्वासो देव साधवः च् अरं वहन्त्याशवः
अ अच्छा नो याह्या वहाभि प्रयांसि वीतये च् आ देवान्त्सोमपीतये
अ उदग्ने भारत द्युमदजस्रेण दविद्युतत् च् शोचा वि भाह्यजर
प्र सुन्वानायान्धसो मर्त्तो न वष्ट तद्वचः अप श्वानमराधसं हता मखं न भृगवः
आ जामिरत्के अव्यत भुजे न पुत्र ओण्योः सरज्जारो न योषणां वरो न योनिमासदम्
स वीरो दक्षसाधनो वि यस्तस्तम्भ रोदसी हरिः पवित्रे अव्यत वेधा न योनिमासदम्
अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि युधेदापित्वमिच्छसे
न की रेवन्तं सख्याय विन्दसे पीयन्ति ते सुराश्वः यदा कृणोषि नदनुं समूहस्यादित्पितेव हूयसे
आ त्वा सहस्रमा शतं युक्ता रथे हिरण्यये ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये
आ त्वा रथे हिरण्यये हरी मयूरशेप्या शितिपृष्ठा वहतां मध्वो अन्धसो विवक्षणस्य पीतये
पिबा त्वास्य गिर्वणः सुतस्य पूर्वपा इव परिष्कृतस्य रसिन इयमासुतिश्चारुर्मदाय पत्यते
आ सोता परि षिञ्चताश्वं न स्तोममप्तुरं रजस्तुरम् वनप्रक्षमुदप्रुतम्
सहस्रधारं वृषभं पयोदुहं प्रियं देवाय जन्मने ऋतेन य ऋतजातो विवावृधे राजा देव ऋतं बृहत्
अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया समिद्धः शुक्र आहुतः
गर्भे मातुः पितुष्पिता विदिद्युतानो अक्षरे सीदन्नृतस्य योनिमा
ब्रह्म प्रजावदा भर जातवेदो विचर्षणे अग्ने यद्दीदयद्दिवि
अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्त रसम् सुतः पवित्रं पर्येति रेभन्मितेव सद्म पशुमन्ति होता
भद्रा वस्त्रा समन्या ऽ ऽ वसानो महान्कविर्निवचनानि शंसन् आ वच्यस्व चम्वोः पूयमानो विचक्षणो जागृविर्देववीतौ
समु प्रियो मृज्यते सानो अव्ये यशस्तरो यशसां क्षैतो अस्मे अभि स्वर धन्वा पूयमानो यूयं पात स्वस्तिभिः सदा नः