इति पञ्च पुरीषपदानि .. .. इति .. उत्तर प्रथम प्रथमो ऽर्धः असितः काश्यपो देवलो वा. गायत्री. पवमानः सोमः. अ उपास्मै गायता नरः पवमानायेन्दवे च् अभि देवां इयक्षते
अ अभि ते मधुना पयो ऽथर्वाणो अशिश्रयुः च् देवं देवाय देवयु
अ स नः पवस्व शं गवे शं जनाय शमर्वते च् शं राजन्नोषधीभ्यः
कश्यपो मारीचः. गायत्री. पवमानः सोमः. अ दविद्युतत्या रुचा परिष्टोभन्त्या कृपा च् सोमाः शुक्रा गवाशिरः
अ हिन्वानो हेतृभिर्हित आ वाजं वाज्यक्रमीत् च् सीदन्तो वनुषो यथा
अ ऋधक्सोम स्वस्तये संजग्मानो दिवा कवे च् पवस्व सूर्यो दृशे
शतं वैखानसाः, गायत्री, पवमानः सोमः. अ पवमानस्य ते कवे वाजिन्त्सर्गा असृक्षते च् अर्वन्तो न श्रवस्यवः
अ अच्छा कोशं मधुश्चुतमसृग्रं वारे अव्यये च् अवावशन्त धीतयः
अ अच्छा समुद्रमिन्दवो ऽस्तं गावो न धेनवः च् अग्मन्नृतस्य योनिमा
भरद्वाजो बार्हस्पत्यः, गायत्री, अग्निः. अ अग्न आ याहि वीतये गृणानो हव्यदातये च् नि होता सत्सि बर्हिषि
अ तं त्वा समिद्भिरङ्गिरो घृतेन च् बृहच्छोचा यविष्ठ्य
अ स नः पृथु श्रवाय्यमच्छा देव विवाससि च् बृहदग्ने सुवीर्यम्
विश्वामित्रो गाथिनः जमदग्निर्वा, गायत्री, मित्रावरुणौ. अ आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् च् मध्वा रजांसि सुक्रतू
अ उरुशंसा नमोवृधा मह्ना दक्षस्य राजथः च् द्राघिष्ठाभिः शुचिव्रता
अ गृणाना जमदग्निना योनावृतस्य सीदतम् च् पातं सोममृतावृधा
इरीम्बिठिः काण्वः. गायत्री. इन्द्रः. अ आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् च् एदं बर्हिः सदो मम
अ आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना च् उप ब्रह्माणि नः शृणु
अ ब्रह्माणस्त्वा युजा वयं सोमपामिन्द्र सोमिनः च् सुतावन्तो हवामहे
विश्वामित्रो गाथिनः. गायत्री. इन्द्राग्नी. अ इन्द्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यम् च् अस्य पातं धियेषिता
अ इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः च् अया पातमिमं सुतम्
अ इन्द्रमग्निं कविच्छदा यज्ञस्य जूत्या वृणे च् ता सोमस्येह तृम्पताम्
अमहीयुराङ्गिरसः. गायत्री. पवमानः सोमः. अ उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे च् उग्रं शर्म महि श्रवः
अ स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः च् वरिवोवित्परि स्रव
अ एना विश्वान्यर्य आ द्युम्नानि मानुषाणाम् च् सिषासन्तो वनामहे
अ पुनानः सोम धारयापो वसानो अर्षसि च् आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः
अ दुहान ऊधर्दिव्यं मधु प्रियं प्रत्नं सधस्थमासदत् च् आपृच्छ्यं धरुणं वाज्यर्षसि नृभिर्धौतो विचक्षणः
अ प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष च् अश्वं न त्वा वाजिनं मर्जयन्तो ऽच्छा बर्ही रशनाभिर्नयन्ति
अ स्वायुधः पवते देव इन्दुरशस्तिहा वृजना रक्षमाणः च् पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः
अ ऋषिर्विप्रः पुरएता जनानामृभुर्धीर उशना काव्येन च् स चिद्विवेद निहितं यदासामपीच्यां गुह्यं नाम गोनाम्
अ अभि त्वा शूर नोनुमो ऽदुग्धा इव धेनवः च् ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः