अ तं त्वा समिद्भिरङ्गिरो घृतेन च् बृहच्छोचा यविष्ठ्य
अ स नः पृथु श्रवाय्यमच्छा देव विवाससि च् बृहदग्ने सुवीर्यम्
विश्वामित्रो गाथिनः जमदग्निर्वा, गायत्री, मित्रावरुणौ. अ आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् च् मध्वा रजांसि सुक्रतू
अ उरुशंसा नमोवृधा मह्ना दक्षस्य राजथः च् द्राघिष्ठाभिः शुचिव्रता
अ गृणाना जमदग्निना योनावृतस्य सीदतम् च् पातं सोममृतावृधा
इरीम्बिठिः काण्वः. गायत्री. इन्द्रः. अ आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् च् एदं बर्हिः सदो मम
अ आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना च् उप ब्रह्माणि नः शृणु
अ ब्रह्माणस्त्वा युजा वयं सोमपामिन्द्र सोमिनः च् सुतावन्तो हवामहे
विश्वामित्रो गाथिनः. गायत्री. इन्द्राग्नी. अ इन्द्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यम् च् अस्य पातं धियेषिता
अ इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः च् अया पातमिमं सुतम्
अ इन्द्रमग्निं कविच्छदा यज्ञस्य जूत्या वृणे च् ता सोमस्येह तृम्पताम्
अमहीयुराङ्गिरसः. गायत्री. पवमानः सोमः. अ उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे च् उग्रं शर्म महि श्रवः
अ स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः च् वरिवोवित्परि स्रव
अ एना विश्वान्यर्य आ द्युम्नानि मानुषाणाम् च् सिषासन्तो वनामहे
अ पुनानः सोम धारयापो वसानो अर्षसि च् आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः
अ दुहान ऊधर्दिव्यं मधु प्रियं प्रत्नं सधस्थमासदत् च् आपृच्छ्यं धरुणं वाज्यर्षसि नृभिर्धौतो विचक्षणः
अ प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष च् अश्वं न त्वा वाजिनं मर्जयन्तो ऽच्छा बर्ही रशनाभिर्नयन्ति
अ स्वायुधः पवते देव इन्दुरशस्तिहा वृजना रक्षमाणः च् पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः
अ ऋषिर्विप्रः पुरएता जनानामृभुर्धीर उशना काव्येन च् स चिद्विवेद निहितं यदासामपीच्यां गुह्यं नाम गोनाम्
अ अभि त्वा शूर नोनुमो ऽदुग्धा इव धेनवः च् ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः
अ न त्वावां अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते च् अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे
अ कया नश्चित्र आ भुवदूती सदावृधः सखा च् कया शचिष्ठया वृता
अ कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः च् दृढा चिदारुजे वसु
अ अभी षु णः सखीनामविता जरित्र्^ईणाम् च् शतं भवास्यूतये
अ तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः च् अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे
अ द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसम् च् क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे
अ तरोभिर्वो विदद्वसुमिन्द्रं सबाध ऊतये च् बृहद्गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणम्
अ न यं दुध्रा वरन्ते न स्थिरा मुरो मदेषु शिप्रमन्धसः च् य आदृत्या शशमानाय सुन्वते दाता जरित्र उक्थ्यम्
अ स्वादिष्ठया मदिष्ठया पवस्व सोम धारया च् इन्द्राय पातवे सुतः
अ रक्षोहा विश्वचर्षणिरभि योनिमयोहते च् द्रोणे सधस्थमासदत्