उत्सक्थ्या ऽ अव गुदं धेहि सम् अञ्जिं चारया वृषन् । य स्त्रीणां जीवभोजनः
यकासकौ शकुन्तिकाहलग् इति वञ्चति । आ हन्ति गभे पसो निगल्गलीति धारका
यको ऽसकौ शकुन्तक ऽ आहलग् इति वञ्चति । विवक्षत ऽ इव ते मुखम् अध्वर्यो मा नस् त्वम् अभि भाषथाः
माता च ते पिता च ते ऽग्रं वृक्षस्य रोहतः । प्रतिलामीति ते पिता गभे मुष्टिम् अतꣳसयत्
माता च ते पिता च ते ऽग्रे वृक्षस्य क्रीडतः । विवक्षत ऽइव ते मुखं ब्रह्मन् मा नस् त्वं वदो बहु
ऊर्ध्वम् एनाम् उच्छ्रापय गिरौ भारꣳ हरन्न् इव । अथास्यै मध्यम् एधताꣳ शीते वाते पुनन्न् इव
ऊर्ध्वम् एनम् उच्छ्रापय गिरौ भारꣳ हरन्न् इव । अथास्य मध्यम् एजतु शीते वाते पुनन्न् इव
यद् अस्या ऽ अꣳहुभेद्याः कृधु स्थूलम् उपातसत् । मुष्काविदस्या ऽ एजतो गोशफे शकुलाव् इव
यद् देवासो ललामगुं प्र विष्टीमिनम् आविषुः । सक्थ्ना देदिश्यते नारी सत्यस्याक्षिभुवो यथा
यद्धरिणो यवम् अत्ति न पुष्टं पशु मन्यते । शूद्रा यद् अर्यजारा न पोषाय धनायति
यद्धरिणो यवम् अत्ति न पुष्टं बहु मन्यते । शूद्रो यद् अर्यायै जारो न पोषम् अनु मन्यते
दधिक्राव्णो ऽ अकारिषं जिष्णोर् अश्वस्य वाजिनः । सुरभि नो मुखा करत् प्र ण ऽ आयूꣳषि तारिषत्
गायत्री त्रिष्टुब् जगत्य् अनुष्टुप् पङ्क्त्या सह । बृहत्य् उष्णिहा ककुप् सूचीभिः शम्यन्तु त्वा
द्विपदा याश् चतुष्पदास् त्रिपदा याश् च षट्पदाः । विच्छन्दा याश् च सच्छन्दाः सूचीभिः शम्यन्तु त्वा
महानाम्न्यो रेवत्यो विश्वा आशाः प्रभूवरीः । मैघीर् विद्युतो वाचः सूचीभिः शम्यन्तु त्वा
नार्यस् ते पत्न्यो लोम विचिन्वन्तु मनीषया । देवानां पत्न्यो दिशः सूचीभिः शम्यन्तु त्वा
रजता हरिणीः सीसा युजो युज्यन्ते कर्मभिः । अश्वस्य वाजिनस् त्वचि सिमाः शम्यन्तु शम्यन्तीः
कुविद् अङ्ग यवमन्तो यवं चिद् यथा दान्त्य् अनुपूर्वं वियूय । इहेहैषां कृणुहि भोजनानि ये बर्हिषो नम ऽ उक्तिं यजन्ति
कस् त्वा छ्यति कस् त्वा वि शास्ति कस् ते गात्राणि शम्यति । क ऽ उ ते शमिता कविः
ऋतवस्त ऽ ऋतुथा पर्व शमितारो वि शासतु । संवत्सरस्य तेजसा शमीभिः शम्यन्तु त्वा
अर्धमासाः परूꣳषि ते मासा ऽ आ च्छ्यन्तु शम्यन्तः । अहोरात्राणि मरुतो विलिष्टꣳ सूदयन्तु ते
दैव्या ऽ अध्वर्यवस् त्वा छ्यन्तु वि च आसतु । गात्राणि पर्वशस् ते सिमाः कृण्वन्तु शम्यन्तीः
द्यौस् ते पृथिव्यन्तरिक्षं वायुश् छिद्रं पृणातु ते । सूयस् ते नक्षत्रैः सह लोकं कृणोतु साधुया
शं ते परेभ्यो गात्रेभ्यः शम् अस्त्व् अवरेभ्यः । शम् अस्थभ्यो मज्जभ्यः शम् व् अस्तु तन्वै तव
कः स्विद् एकाकी चरति क ऽ उ स्विज् जायते पुनः । किꣳ स्विद्धिमस्य भेषजं किम् व् आवपनं महत्
सूर्य ऽ एकाकी चरति चन्द्रमा जायते पुनः । अग्निर् हिमस्य भेषजं भूमिर् आवपनं महत्
किꣳ स्वित् सूर्यसमं ज्योतिः किꣳ समुद्रसमꣳ सरः । किꣳ स्वित् पृथिव्यै वर्षीयः कस्य मात्रा न विद्यते
ब्रह्म सूर्यसमं ज्योतिर् द्यौः समुद्रसमꣳ सरः । इन्द्रः पृथिव्यै वर्षीयान् गोस् तु मात्रा न विद्यते
पृच्छामि त्वा चितये देवसख यदि त्वम् अत्र मनसा जगन्थ । येषु विष्णुस् त्रिषु पदेष्व् एष्टस् तेषु विश्वं भुवनम् आ विवेशाꣳ३ऽ
अपि तेषु त्रिषु पदेष्व् अस्मि येषु विश्वं भुवनम् आविवेश । सद्यः पर्य् एमि पृथिवीम् उत द्याम् एकेनाङ्गेन दिवो ऽ अस्य पृष्ठम्