अनर्थः प्राप्यते यत्र शास्त्रिताद् अपि पौरुषात् । अनर्थकर्तुर् बलवत् तत्र ज्ञेयं स्वपौरुषम्
परं पौरुषम् आश्रित्य दन्तैर् दन्तान् विचूर्णयन् । शुभेनाशुभम् उद्युक्तः प्राक्तनं पौरुषं जयेत्
प्राक्तनः पुरुषार्थो ऽसौ मां नियोजयतीति धीः । बलाद् अधस्पदीकार्या प्रत्यक्षाद् अधिका न सा
तावत् तावत् प्रयत्नेन यतितव्यं स्वपौरुषम् । प्राक्तनं पौरुषं यावद् अशुभं शाम्यति स्वयम्
दोषश् शाम्यत्य् असन्देहं प्राक्तनो ऽद्यतनैर् गुणैः । दृष्टान्तो ऽत्र ह्यस्तनस्य दोषस्याद्यगुणैः क्षयः
असद्दैवम् अधः कृत्वा नित्यम् उद्युक्तया धिया । संसारोत्तरणं भूत्यै यतेताधातुम् आत्मनि
न गन्तव्यम् अनुद्योगैस् साम्यं पुरुषगर्दभैः । उद्योगस् तु यथाशास्त्रं लोकद्वितयसिद्धये
संसारकुहराद् अस्मान् निर्गन्तव्यं स्वयं बलात् । पौरुषं यत्नम् आश्रित्य हरिणेवारिपञ्जरात्
प्रत्यहं प्रत्यवेक्षेत नरश् चरितम् आत्मनः । सन्त्यजेत् पशुभिस् तुल्यं श्रयेत् सत्पुरुषोचितम्
किञ्चित् कान्तान्नपानादिकलिलं कोमलं गृहे । व्रणे कीट इवास्वाद्य वयः कार्यं न भस्मसात्
शुभेन पौरुषेणाशु शुभम् आसाद्यते फलम् । अशुभेनाशुभं नित्यं दैवं नाम न किञ्चन
प्रत्यक्षदृष्टम् उत्सृज्य यो ऽनुमानमनास् त्व् असौ । स्वभुजाभ्याम् इमौ सर्पाव् इति प्रेक्ष्य पलायताम्
दैवं सम्प्रेरयति माम् इति मुग्धधियां मुखम् । अदृष्टश्रेष्ठदृष्टीनां दृष्ट्वा लक्ष्मीर् निवर्तते
तस्मात् पुरुषयत्नेन विवेकं पूर्णम् आश्रयेत् । आत्मज्ञानमयार्थानि शास्त्राणि प्रविचारयेत्
चित्ते चिन्तयताम् अर्थं यथाशास्त्रं निजेहितैः । असंसाधयताम् एव मूढानां धिग् दुरीप्सितम्
पौरुषं च न चानन्तं न यन् नामाभिवाञ्छ्यते । न यत्नेनापि महता तैलम् आसाद्यते ऽश्मनः
यथा घटः परिमितो यथा परिमितः पटः । नियतः परिमाणस्थः पुरुषार्थस् तथैव वः
स च शास्त्रार्थसत्सङ्गसमाचारैर् निजं फलम् । ददातीति स्वभावो ऽयम् अन्यथानर्थसिद्धये
स्वरूपं पौरुषस्यैतद् एवं व्यवहरन् नरः । याति निष्फलयत्नत्वं न कदाचन कश्चन
दैन्यदारिद्र्यदुःखार्ता अप्य् अन्ये पुरुषोत्तमाः । पौरुषेणैव यत्नेन याता देवेन्द्रतुल्यताम्
आ बाल्याच् चैवम् अभ्यस्तैश् शास्त्रसत्सङ्गमादिभिः । गुणैः पुरुषयत्नेन स्वो ऽर्थस् सम्प्राप्यते हि तैः
इति प्रत्यक्षतो दृष्टम् अनुभूतं श्रुतं कृतम् । दैवोत्थम् इति मन्यन्ते ये हतास् ते कुबुद्धयः
आलस्यं यदि न भवेज् जगत्य् अनर्थः को न स्याद् बहुधनिको बहुश्रुतो वा । आलस्याद् इयम् अवनिस् ससागरान्ता सम्पूर्णा नरपशुभिश् च निर्धनैश् च
बाल्ये गते ऽविरतकल्पितकेलिलोले पौगण्डमण्डनवयःप्रभृति प्रयत्नात् । सत्सङ्गमैः पदपदार्थविबुद्धबुद्धिः कुर्यान् नरस् स्वगुणदोषविचारणानि
इत्य् उक्तवत्य् अथ मुनौ दिवसो जगाम सायन्तनाय विधये ऽस्तम् इनो जगाम । स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश् च सहाजगाम
तस्मात् प्राक्पौरुषं दैवं नान्यत् तत् प्रोज्झ्य दूरतः । साधुसङ्गमसच्छास्त्रैर् जीवम् उत्तारयेद् बलात्
यथा यथा प्रयत्नस् स्याद् भवेद् आशु फलं तथा । इति पौरुषम् एवास्ति दैवम् अस्तु तद् एव वः
दुःखाद् यथा दुःखकाले हा कष्टम् इति कथ्यते । हाकष्टशब्दपर्यायस् तथा हा दैवम् इत्य् अपि
प्राक्स्वकर्मेतराकारं दैवं नाम न विद्यते । बालः प्रबलपुंसेव तज् जेतुम् इह शक्यते
ह्यस्तनो दुष्ट आचार आचारेणाद्य चारुणा । यथाशु शुभतां याति प्राक्तनं कुकृतं तथा