आकाशाद् एव यो जातस् स व्योमैवामलं भवेत् । सहकारीणि नो सन्ति कारणाण्य् अस्य कानिचित्
सम्बन्धः प्राक्तनेनास्य न मनाग् अपि कर्मणा । अस्ति वन्ध्यासुतस्येव तथाजाताकृतेर् इव
तस्माद् अजात एवैष स्वयम्भूर् अज एव च । नैतस्य पूर्वकर्मास्ति नभसीव महाद्रुमः
नैतद् अस्यावशं चित्तम् अभावात् पूर्वकर्मणः । अद्य तावद् अनेनान्यन् न किञ्चित् कर्म सञ्चितम्
एष आकाशकोशात्मा विशदाकाशरूपिणि । समाधौ संस्थितो नित्यं कर्माण्य् अस्य न कानिचित्
प्राक्तनानि न सन्त्य् अस्य कर्माण्य् अद्य करोति नो । किञ्चिद् अप्य् एवम् एषो ऽत्र विज्ञानाकाशमात्रकम्
प्राणस्पन्दो ऽस्य यत् कर्म लक्ष्यते चास्मदादिभिः । दृश्यते ऽस्माभिर् एवैतन् न त्व् अस्यास्त्य् अत्र कर्मधीः
देहो ऽस्य दृश्यते ऽस्माभिर् नैष वेत्ति परात् पदात् । भिन्नम् आकाशम् आत्मीयं चित्स्तम्भे सालभञ्जिकाम्
अनुत्कीर्णा यथा स्तम्भे संस्थिता सालभञ्जिका । तथैष परमात्मान्तस् स्वात्मभूतस् स्थितो द्विजः
यथा द्रवत्वं पयसि शून्यत्वं च यथाम्बरे । मारुते च यथा स्पन्दस् तथैष परमे पदे
कर्माण्य् अद्यतनान्य् अस्य सञ्चितानि न सन्ति हि । न पूर्वाण्य् एव तेनेह न संसारवशं गतः
सहकारिकारणानाम् अभावे यः प्रजायते । नासौ स्वकारणाद् भिन्नो भवतीत्य् अनुभूयते
निर्मलाकाशकोशात्मा द्विज एष स्वयम्भवः । कर्ता न पूर्वं नाप्य् अद्य कथम् आक्रम्यते वद
यदैष कलनां बुद्ध्या मृत्युनाम्नीं करिष्यति । तदैव रहितो बुद्ध्या स्वयम् एव मरिष्यति
पृथ्व्यादिमान् अहम् अयम् इति यस्य स्वनिश्चयः । स पार्थिवो भवत्य् आशु ग्रहीतुं स च शक्यते
एष त्व् अपार्थिवाकारश् शुद्धविज्ञानरूपवान् । दृढरज्ज्वेव गगनं ग्रहीतुं नैव युज्यते
भगवञ् जायते शून्यः कथं नाम वदेति मे । पृथ्व्यादयः कथं सन्ति न सन्ति वद वा कथम्
न कदाचन जातो ऽसौ न च नास्ति कदाचन । द्विजः केवलविज्ञानभामात्रं तत् तथा स्थितम्
महाप्रलयसम्पत्तौ न किञ्चिद् अवशिष्यते । ब्रह्मास्ते शान्तम् अजरम् अनन्तात्मैव केवलम्
चेत्यनिर्मुक्तचिन्मात्रम् अणूनाम् अणु विद्धि तत् । तथा तद् अणु येनास्य निकटे ऽद्रिनिभं नभः
स चिन्मात्रस्वभावत्वाद् देहो ऽहम् इति चेतसि । काकतालीयवद् भातम् आकारं तेन पश्यति
स एष ब्राह्मणस् तस्मिन् सर्गादाव् अम्बरोदरे । स्वयं भातस् स्वयम्भूत्वं गतो भात्य् अजरामरः
नास्य देहो न कर्माणि न कर्तृत्वं न वासना । एष शुद्धचिदाकाशो विज्ञानघनम् आततम्
प्राक्तनं वासनाजालं किञ्चिद् अस्य न विद्यते । केवलं व्योमरूपस्य भारूपस्येव तेजसः
केवलं वेदनामात्राद् एवम् एषो ऽवलोक्यते । वेदनामात्रसंशान्ताव् ईदृशो ऽपि न दृश्यते
तस्माद् यथा चिदाकाशस् तथा तत्प्रतिपत्तयः । कुतः किलात्र पृथ्व्यादेः कीदृशस् सम्भवः कथम्
एतदाक्रमणे मृत्यो तस्मान् मा यत्नवान् भव । ग्रहीतुं युज्यते व्योम न कदाचन केनचित्
ब्रह्मैव कथितो ब्रह्मंस् त्वया मे प्रपितामहः । स्वयम्भूर् अज एकात्मा विज्ञानात्मेति मे मतिः
एवम् एतन् मया राम ब्रह्मैष कथितस् तव । विवादम् अकरोन् मृत्युर् यमेनैतत्कृते पुरा
मन्वन्तरे सर्वभक्षो यदा मृत्युर् हरन् प्रजाः । बलम् एत्य् अब्जजाक्रान्ताव् आरम्भम् अकरोत् स्वयम्