इत्थं निर्मोक्षदोषस् स्यान् न च तस्यांशसम्भवः । यस्माद् देवर्षिमुनयो दृश्यन्ते मुक्तिभाजनम्
यदि स्याज् जगदादीदं तत् स्यान् मोक्षो न कस्यचित् । बाह्यस्थम् अस्तु हृत्स्थं वा दृश्यं नाशाय केवलम्
तस्माद् इमां प्रतिज्ञां त्वं शृणु रामातिभीषणाम् । याम् उत्तरेण ग्रन्थेन नूनं त्वम् अवबुध्यसे
अयम् आकाशभूतादिरूपो ऽहं चेति लक्षितः । जगच्छब्दस्य नामार्थो ननु नास्त्य् एव कश्चन
यद् इदं दृश्यते किञ्चिद् दृश्यजालं पुरोगतम् । एकं ब्रह्मैव तत् सर्वम् अजरामरम् अव्ययम्
पूर्णे पूर्णं प्रसरति शान्ते शान्तं परं स्थितम् । व्योमन्य् एवोदितं व्योम ब्रह्म ब्रह्मणि तिष्ठति
न दृश्यम् अस्ति नो दृक् च न द्रष्टा न च दर्शनम् । न शून्यं नो जडं नो चिच् छान्तम् एवेदम् आततम्
वन्ध्यापुत्रेण पिष्टो ऽद्रिश् शशशृङ्गं प्रमायते । प्रसार्य भुजसङ्घातं शिला नृत्यति ताण्डवम्
स्रवन्ति सिकतास् तैलं पठन्त्य् उपलपुत्रिकाः । गर्जन्ति चित्रजलदा इतीवेदं वचः प्रभो
जरामरणदुःखादिशैलाकाशमयं जगत् । नास्तीति किम् इदं नाम भवतापि ममोच्यते
यथेदं न स्थितं विश्वं नोत्पन्नं न च विद्यते । तथा कथय मे ब्रह्मन् येनैतन् निश्चितं भवेत्
नासमन्वितवाग् अस्मि शृणु राघव कथ्यते । यथेदम् असद् आभाति वन्ध्यापुत्र इवारवी
इदम् आदाव् अनुत्पन्नं सर्गादौ तेन नास्त्य् अलम् । इदं हि मनसा भाति स्वप्नादौ पत्तनं यथा
मन एव च सर्गादाव् अनुत्पन्नम् असद्वपुः । तथैतच् छृणु वक्ष्यामि यथैतद् अनुभूयते
मनो दृश्यमयं दोषं तनोतीमं क्षयात्मकम् । असद् एवासदाकारं स्वप्नस् स्वप्नान्तरं यथा
तत् स्वयं स्वैरम् एवाशु सङ्कल्पयति देहकम् । तेनेयम् इन्द्रजालश्रीर् विततेन वितन्यते
स्फुरति गच्छति वल्गति याचते भवति मज्जति संहरति स्वयम् । अमरताम् उपयात्य् अपि केवलं चलति चञ्चलशक्तितया मनः
भगवन् मुनिशार्दूल किम् इवेह मनो भ्रमे । विद्यते कथम् उत्पन्नं मनो मायामयं कुतः
उत्पत्तिम् आदाव् इति मे समासेन वद प्रभो । प्रवक्ष्यसि ततश् शिष्टं वक्तव्यं वदतां वर
महाप्रलयसम्पत्ताव् असत्तां समुपागते । अशेषदृश्ये सर्गादौ शान्तम् एवावशिष्यते
आस्ते ऽनस्तमितो भास्वान् अजो देवो निरामयः । सर्वदा सर्वकृत् सर्वः परमात्मा महेश्वरः
यतो वाचो निवर्तन्ते यो मुक्तैर् अवगम्यते । यस्य चात्मादिकास् सञ्ज्ञाः कल्पिता न स्वभावजाः
यः पुमान् साङ्ख्यदृष्टीनां ब्रह्म वेदान्तवादिनाम् । विज्ञानमात्रं विज्ञानविदाम् एकान्तनिर्मलम्
यश् शून्यवादिनां शून्यं भासको यो ऽर्कतेजसाम् । वक्ता स्मर्ता ऋतं भोक्ता द्रष्टा कर्ता सदैव यः
सद् अप्य् असद् यो जगति यो देहस्थो ऽपि दूरगः । चित्प्रकाशो ह्य् अयं यस्माद् आलोक इव भास्वतः
यस्माद् विष्ण्वादयो देवास् सूर्याद् इव मरीचयः । यस्माज् जगन्त्य् अनन्तानि बुद्बुदा जलधेर् इव
यं यान्ति दृश्यवृन्दानि पयांसीव महाम्बुधिम् । य आत्मानं पदार्थं च प्रकाशयति दीपवत्
आकाशे यश् शरीरे च दृषत्स्व् अप्सु लतासु च । पांसुष्व् अद्रिषु वातेषु पातालेषु च संस्थितः
यः प्लावयति संरब्धं पुर्यष्टकम् इतस् ततः । येन मूकीकृता मूढाश् शिला ध्यानम् इवास्थिताः
व्योम येन कृतं शून्यं शैला येन घनीकृताः । आपो द्रुताः कृता येन दीप्तो यस्य वशाद् रविः