अथ वर्षसहस्रेण भर्तादौ चेन् मरिष्यति । तत् करिष्ये तथा येन जीवो गेहान् न यास्यति
उद्भ्रमद्भर्तृजीवे ऽस्मिन् निजे शुद्धान्तमण्डपे । भर्त्रावलोकिता नित्यं निवत्स्यामि यथासुखम्
अद्यैवारभ्यैतदर्थं देवीं ज्ञप्तिं सरस्वतीम् । जपोपवासनियमैर् आतोषं पूजयाम्य् अहम्
इति निश्चित्य सा नाथम् अनुक्त्वैव वराङ्गना । यथाशास्त्रं चचारोग्रं तपो नियमम् आस्थिता
त्रिरात्रस्य त्रिरात्रस्य पर्यन्ते कृतपारणा । देवद्विजगुरुप्राज्ञविद्वत्पूजापरायणा
स्नानदानतपोध्याननित्योद्युक्तशरीरिका । सर्वास्तिक्यसदाचारकारिणी क्लेशभारिणी
यथाकालं यथोद्योगं यथाशास्त्रं यथाक्रमम् । तोषयाम् आस भर्तारम् अपरिज्ञाततत्स्थितिम्
त्रिरात्रशतम् एवं सा बाला नियमशालिनी । अनारततपोनिष्ठम् अतिष्ठत् कष्टचेष्टया
त्रिरात्राणां शतेनाथ पूजिता प्रतिमाम् इता । तुष्टा भगवती गौरी वागीशीदम् उवाच ताम्
निरन्तरेण तपसा भर्तृभक्त्यतिशायिना । परितुष्टास्मि ते वत्से गृहाण वरम् ईप्सितम्
जय जन्मजराज्वालादाहदोषशशिप्रभे । जय हार्दान्धकारौघनिवारणरविप्रभे
अम्ब मां त्रिजगन्मातस् त्रायस्व कृपणाम् इमाम् । इदं वरद्वयं देहि यद् इह प्रार्थये शुभम्
एकं तावद् विदेहस्य भर्तुर् जीवो ममाम्बिके । अस्माद् एव हि मा यासीन् निजान्तःपुरमण्डपात्
द्वितीयं त्वां महादेवि प्रार्थये ऽहं यदा यदा । दर्शनाय वरार्थेन तदा मे देहि दर्शनम्
इत्य् आकर्ण्य जगन्माता तथास्त्व् एवम् इति क्षणात् । उक्त्वान्तर्धानम् अगमद् उत्थायोर्मिर् इवार्णवे
अथ सा राजमहिषी परितुष्टेष्टदेवता । श्रुतगीतेव हरिणी बभूवानन्दधारिणी
परावृत्त्युग्रकटके दिनारे वर्षदण्डके । क्षणनाभौ स्पन्दमये कालचक्रे वहत्य् अपि
अन्तर्धिम् आजगामास्याः पत्युस् तच् चेतनं तनौ । सन्दृश्यमान एवाशु शुष्कपर्णे रसो यथा
रणखण्डितदेहे ऽस्मिन् मृते ऽन्तःपुरमण्डपे । निर्जला नलिनीवासौ परां म्लानिम् उपाययौ
विषोष्णश्वसनस्तब्धसकलाधरपल्लवा । प्राप सा मरणावस्थां मलयाधित्यकाम् इव
प्राप सा तमसान्धत्वं तस्मिन् मरणम् आगते । दीपज्वालालवे क्षीणे सद्मश्रीर् इव भूषिता
कार्श्यम् आप क्षणेनासौ बाला विरसतां गता । यथा स्रोतस्विनी स्रोतःक्षये क्षामविधूसरा
क्षिप्रम् आक्रन्दिनी क्षिप्रं मौनासक्ता वियोगिनी । बभूव चक्रवाकीव मानिनी मरणोन्मुखी
अथ ताम् अतिमात्रविह्वलां सकृद् आकाशभवा सरस्वती । शफरीं ह्रदशोषविह्वलां प्रथमा वृष्टिर् इवान्वकम्पत
शवीभूतम् इमं वत्से भर्तारं पुष्पकम्बलैः । आच्छाद्य स्थापयेह त्वं पुनर् एनम् अवाप्स्यसि
पुष्पाणि म्लानिम् एष्यन्ति नो न चैष विनङ्क्ष्यति । भूयश् च तव भर्तायम् अचिरेण भविष्यति
एतदीयश् च जीवो ऽसाव् आकाशविशदस् तव । न निर्गमिष्यति क्षिप्रम् अप्य् अन्तःपुरमण्डपात्
षट्पदश्रेणिनयना समाकर्ण्येति बन्धुभिः । सा समाश्वासितागत्य पयोभिर् इव पद्मिनी
पतिं संस्थाप्य तत्रैव पुष्पपूरप्रगोपितम् । किञ्चिद् आश्वासितातिष्ठत् कृपणेव निधानिनी
तस्मिन्न् एव दिने सैका तस्मिञ् शुद्धान्तमण्डपे । अर्धरात्रं परिजने सर्वस्मिन् निद्रया हृते