समाधिस्थानकं गत्वा तस्थतुर् निश्चलाङ्गके । रत्नस्तम्भाद् इवोत्कीर्णे चित्रभित्ताव् इवार्पिते
सर्वास् तत्यजतुश् चिन्तास् सङ्कोचं समुपागते । दिवसान्त इवाब्जिन्यौ प्रसृतामोदलेखिके
बभूवतुर् भृशं शान्ते शुद्धे स्पन्दविवर्जिते । गिरौ शरदि निर्वात इव वृष्ट्याभ्रमालिके
निर्विकल्पसमाधानाज् जहतुर् व्योम्नि संविदम् । यथा कल्पलते कान्ते पूर्णम् ऋत्वन्तरे रसम्
अहं जगद् इति भ्रान्तेर् दृश्यस्यादाव् अनुद्भवः । यदा ताभ्याम् अवगतस् स्वात्यन्ताभावनात्मकः
तदा दृश्यपिशाचो ऽयम् अलम् अस्तङ्गतस् तयोः । असत्त्वाद् एव चास्माकं शशशृङ्गम् इवानघ
आदाव् एव हि यन् नास्ति वर्तमाने ऽपि तत् तथा । भातं चाभातम् एवातो मृगतृष्णाम्बुवज् जगत्
स्वभावः केवलश् शान्तस् स्त्रीद्वयं तद् बभूव ह । चन्द्रार्कादिपदार्थौघदूरमुक्तम् इवाम्बरम्
तेनैव ज्ञानदेहेन ततार ज्ञप्तिदेवता । मानुषी त्व् इतरेणाशु ज्ञानाज्ञानानुरूपिणा
गेहान्तर् एव प्रादेशमात्रम् आरुह्य वै दिवः । बभूवतुश् चिदाकाशरूपिण्यौ व्योमगाकृती
अथ ते ललने लीलालाने ललितलोचने । स्वभावाच् चेत्यसंवित्तेर् नभो दूरम् इवागते
तत्रस्थे एकचिद्वृत्त्या पुप्लुवाते नभस्तलम् । कोटियोजनविस्तीर्णं दूराद् दूरतरान्तरम्
दृश्यानुसन्धाननिजस्वभावाद् आकाशदेहे अपि ते मिथो ऽत्र । परस्पराकारविलोकनेन बभूवतुस् स्नेहपरे वयस्ये
दूराद् दूरं समाप्लुत्य शनैर् उच्चपदं गते । हस्ते हस्तं समासज्य यान्त्यौ ददृशतुर् नभः
एकार्णवम् इवोच्छूनं गम्भीरं निर्मलान्तरम् । कोमलं कोमलमरुदसङ्गसुखभोगदम्
आह्लादकम् अलं सौम्यं शून्यताम्भोनिमज्जनात् । अत्यन्तशुद्धगम्भीरं प्रसन्नम् इव सज्जनम्
शृङ्गस्थनिर्मलाम्भोदपीनोदरसुधालये । विशश्रमतुर् आशासु पूर्णचन्द्रोदरामले
सिद्धगन्धर्वमन्दारमालामोदमनोहरे । चन्द्रमण्डलनिष्क्रान्ते रेमाते मधुरानिले
सस्नतुर् भूरि घर्मान्ते तडिद्रक्ताब्जसङ्कुले । सरसीव जलापूरमन्थरे मेघजालके
भूतलोद्यन्महाशैलमृनालाङ्कुरकोटिषु । दिक्षु बभ्रमतुर् भूरि भ्रमर्यौ सरसीष्व् इव
धारागृहधिया धीरगङ्गानिर्झरधारिणि । ववतुर् वातविक्षुब्धमेघमण्डलमण्डपे
ततो मधुरकामिन्यौ विश्राम्यन्त्यौ स्वशक्तितः । शून्ये ददृशतुर् व्योम महासंरम्भमन्थरम्
अदृष्टपूर्वम् अन्योऽन्यम् अन्यसङ्कटकोटरम् । आपूर्यमाणम् आशून्यं जगत्कोटिशतैर् अपि
उपर्य् उपर्य् उपर्य् उच्चैर् अन्यैर् अन्यैर् वृतं पृथक् । विचित्रावरणाकारैर् भूताभ्रांशुविमानकैः
परितः पूरितव्योम्नां मेर्वादिकुलभूभृताम् । पद्मरागतटोद्द्योतैः कल्पज्वालोदरोपमम्
मुक्ताशिखरभापूरैर् हिमवत्सानुसुन्दरम् । काञ्चनाद्रिस्थलार्चिर्भिः काञ्चनस्थलभासुरम्
महामरकताभाभिश् शाद्वलस्थलनीलिम । द्रष्टुर् दृष्टिक्षयासत्यजातध्वान्तोत्थकालिम
पारिजातलतालोलविमानगणकेतनम् । बोधमञ्जरिताकारम् इव वैडूर्यभूतलम्
मनोवेगमहासिद्धजितवातगमागमम् । विमानगृहदेवस्त्रीगीतवाद्यरवाकुलम्
त्रैलोक्यचरभूतौघसञ्चारविरलान्तरम् । अन्योऽन्यादृष्टसञ्चारसुरासुरकुलाकुलम्