जरामरणदुःखानाम् एका रत्नसमुद्गिका । आधिव्याधिविलासानां नित्यमत्ता विलासिनी
क्षणम् आलोकविमला सान्धकारलवा क्षणम् । व्योमवीथीसमा तृष्णा नीहारगहना क्षणम्
गच्छतूपशमं तृष्णा कार्यव्यायामशान्तये । तमी घनतमःकृष्णा यथा रक्षोनिवृत्तये
तावन् मुह्यत्य् अयं लोको मूको विलुलिताशयः । यावद् एवानुसन्धत्ते तृष्णाविषविषूचिकाम्
लोको ऽयम् अखिलं दुःखं चिन्तयोज्झित उज्झति । चिन्ताविषूचिकामन्त्रश् चिन्तात्यागो हि कथ्यते
तृणपाषाणकाष्ठादि सर्वम् आमिषशङ्कया । आदधाना स्फुरत्य् अन्तस् तृष्णा मत्स्यी ह्रदे यथा
रोगार्तिरङ्गगा तृष्णा गम्भीरम् अपि मानवम् । उत्तानतां नयत्य् आशु सूर्यांशव इवाम्बुजम्
अन्तश्शून्या ग्रन्थिमत्यो दीर्घस्वाङ्कुरकण्टकाः । मुक्तामणिश्रियो नित्यं तृष्णा वेणुलता इव
अहो बत महच् चित्रं तृष्णाम् अपि महाधियः । दुश्छेद्याम् अपि कृन्तन्ति विवेकेनामलासिना
नासिधारा न वज्राग्निर् न तप्तायःकणार्चिषः । तथा तीक्ष्णा यथा ब्रह्मंस् तृष्णेयं हृदि संस्थिता
कज्जलासिततीक्ष्णाग्रास् स्नेहदीर्घदशापराः । प्रकाशा दाहदस्पर्शास् तृष्णा दीपशिखा इव
अपि मेरूपमं प्राज्ञम् अपि शूरम् अपि स्थिरम् । तृणीकरोति तृष्णैका निमेषेण नरोत्तमम्
विस्तीर्णगहना भीमा घनजालरजोमयी । सान्धकारोग्रनीहारा तृष्णा विन्ध्यमहाटवी
एकैव सर्वभुवनान्तरलब्धलक्ष्या दुर्लक्षताम् उपगतेव पुरस्स्थितैव । तृष्णा स्थिता जगति चञ्चलवीचिमाले क्षीरार्णवाम्बुपटले मधुरेव शक्तिः
आर्द्रान्त्रतन्त्रीगहनो विकारी परितापवान् । देहस् स्फुरति संसारे सो ऽपि दुःखाय केवलम्
अज्ञो ऽपि तज्ज्ञसदृशो वलितात्मचमत्कृतिः । युक्त्या भव्यो ऽप्य् अभव्यो मे न जडो नापि चेतनः
जडाजडदृशोर् मध्ये दोलायितदुराशयः । न विवेकी न मूढात्मा मोहम् एव प्रयच्छति
स्तोकेनानन्दम् आयाति स्तोकेनायाति खेदिताम् । नास्ति देहसमश् शोच्यो नीचो गुणबहिष्कृतः
आगमापायिना नित्यं दन्तकेसरशालिना । विकासिस्मितपुष्पेण प्रतिक्षणम् अलङ्कृतः
भुजशाखौघनमितो द्विजानुस्तम्भसुस्थितः । लोचनालिवपाक्रान्तश् शिरःपीठबृहत्फलः
स्रवदस्रुरसस्रोता हस्तपादसुपल्लवः । गुल्फवान् कार्यसङ्घातविहङ्गमततास्पदम्
सच्छायो देहवृक्षो ऽयं जीवपान्थगणास्पदम् । कस्यात्मीयः कस्य पर आस्थानास्थे किलात्र के
भारसन्तारणार्थेन गृहीतायां पुनः पुनः । नावि देहलतायां च कस्य स्याद् आत्मभावना
देहनाम्नि वने शून्ये बहुगर्तसमाकुले । तनूरुहासङ्ख्यतरौ विश्वासं को ऽधिगच्छति
चर्मस्नाय्वस्थिवलिते शरीरपटहे दृढे । मार्जारवद् अहं नान्तस् तिष्ठाम्य् अविरतध्वनौ
संसारारण्यसंरूढो विलसच्चित्तमर्कटः । चिन्तामञ्जरिकाकारो दीर्घदुःखघुणक्षतः
तृष्णाभुजङ्गमीगेहः कोपकाककृतालयः । स्मितपुष्पो द्रुमश् श्रीमाञ् शुभाशुभमहाफलः
सुस्कन्धो दोर्लताजालो हस्तस्तबकसुन्दरः । पवनस्पन्दिताशेषस्वाङ्गावयवपल्लवः
सर्वेन्द्रियखगाधारस् सुजानुस् सुत्वग् उन्नतः । सरसच्छायया युक्तः कामपान्थनिषेवितः
मूर्ध्नि सञ्जनितादीर्घशिरोरुहतृणावलिः । अहङ्कारजरद्गृद्धकुलायसुषिरोदरः