उद्भिन्नवासनाजालमूलत्वाद् दुर्बलाकृतिः । व्यायामविरमः कायवृक्षो ऽयं न सुखाय मे
कलेवरम् अहङ्कारगृहस्थस्य महागृहम् । लुठत्व् अभ्येतु वा स्थैर्यं किम् अनेन मुने हि मे
पङ्क्तिबद्धेन्द्रियपशु वल्गत्तृष्णागृहाङ्गनम् । रजोरञ्जितसर्वाङ्गं नेष्टं देहगृहं मम
काष्ठास्थिकाष्ठसङ्घट्टपरिसङ्कटकोटरम् । अन्त्रदामभिर् आबद्धं नेष्टं देहगृहं मम
प्रसृतस्नायुतन्त्रीकं रक्ताम्बुकृतकर्दमम् । जरामक्कोलधवलं नेष्टं देहगृहं मम
चित्रकृत्यभृतानन्तचेष्टावष्टब्धसंस्थिति । मिथ्यामोहमहास्थूणं नेष्टं देहगृहं मम
दुःखार्भककृताक्रन्दं सुखशय्यामनोहरम् । दुरीहादग्धदासीकं नेष्टं देहगृहं मम
मलाढ्यविषयव्यूहभाण्डोपस्करसङ्कटम् । अज्ञानक्षारवलितं नेष्टं देहगृहं मम
गुल्फगुल्गुलुविश्रान्तजानूच्चस्तम्भमस्तकम् । दीर्घदोर्दारुसुदृढं नेष्टं देहगृहं मम
प्रकटाक्षगवाक्षान्तःक्रीडत्प्रज्ञागृहाङ्गनम् । चिन्तादुहितृकं ब्रह्मन् नेष्टं देहगृहं मम
मूर्धजच्छादनच्छन्नकर्णश्रीचन्द्रशालिकम् । आदीर्घाङ्गुलिनिर्यूहं नेष्टं देहगृहं मम
सर्वाङ्गकुड्यसञ्जातघनरोमयवाङ्कुरम् । संशून्यपीठपिठिरं नेष्टं देहगृहं मम
नखोर्णनाभनिलयैश् शारम् आरणितान्तरम् । भाङ्कारकारिपवनं नेष्टं देहगृहं मम
प्रवेशनिर्गमव्यग्रवातवेगम् अनारतम् । वितताक्षगवाक्षं च नेष्टं देहगृहं मम
जिह्वामर्कटिकाक्रान्तवदनद्वारभीषणम् । दृष्टदन्तास्थिशकलं नेष्टं देहगृहं मम
त्वक्सुधालेपमसृणं यन्त्रसञ्चारचञ्चलम् । मनोऽमन्दाखुनोत्खातं नेष्टं देहगृहं मम
स्मितदीपप्रभाभासि क्षणम् आनन्दसुन्दरम् । क्षणं व्याप्तं प्रभापूरैर् नेष्टं देहगृहं मम
समस्तरोगायतनं वलीपलितपत्तनम् । सर्वाधिसारङ्गवनं नेष्टं मम कलेवरम्
अक्षर्क्षक्षोभविषमा शून्या निस्सारकोटरा । तमोगहनहृत्कुञ्जा नेष्टा देहाटवी मम
देहालयं धारयितुं न शक्तो ऽस्मि मुनीश्वराः । पङ्कमग्नं समुद्धर्तुं गजम् अल्पबलो यथा
किं श्रिया किं च कायेन किं कामेन किम् ईहया । दिनैः कतिपयैर् एव कालस् सर्वं निकृन्तति
रक्तमांसमयस्यास्य सबाह्याभ्यन्तरं मुने । नाशैकधर्मिणो ब्रूहि केव कायस्य रम्यता
मरणावसरे काया जीवं नानुसरन्ति ये । तेषु तात कृतघ्नेषु केवास्था वत धीमतः
मत्तेभकर्णाग्रचलः कायो लम्बाम्बुभङ्गुरः । न सन्त्यजति मां यावत् तावद् एनं त्यजाम्य् अहम्
पवनस्पन्दतरलः पेलवः कायपल्लवः । जर्जरस् तनुवृत्तश् च नेष्टो ऽयं कटुनीरसः
भुक्त्वा पीत्वा चिरं कालं बालपल्लवपेलवम् । तनुताम् एत्य यत्नेन विनाशम् अनुधावति
तान्य् एव सुखदुःखानि भावाभावमयान्य् असौ । भूयो ऽप्य् अनुभवन् कायः प्राकृतो हि न लज्जते
सुचिरं प्रभुतां कृत्वा संसेव्य विभवश्रियम् । नोच्छ्रायम् एति न स्थैर्यं कायः किम् इति पाल्यते
जराकाले जराम् एति मृत्युकाले तथा मृतिम् । समम् एवाविशेषज्ञः कायो भोगिदरिद्रयोः
संसाराम्भोधिजठरे तृष्णाकुहरकान्तरे । सुप्तस् तिष्ठति मुक्तेहो मूको ऽयं कायकच्छपः